________________
३४६ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १४७-१५१ ] वोपमानात् ॥ ७. ३. १४७ ॥
उपमानात्परो यो गन्धशब्दस्तदन्ताबहुव्रीहेरित्समासान्तो वा भवति । उत्पलस्येव गन्धोऽस्य उत्पलगन्धि उत्पलगन्धं वा मुखम्, करीषगन्धि करीषगन्धं वा शरीरम् ।१४७। पात्पादस्याहस्त्यादेः ॥ ७. ३. १४८ ॥
हस्त्यादिजितादुपमानात्परस्य पादशब्दस्य बहुव्रीही पादित्ययमादेशः समासान्तो भवति । व्याघ्रस्येव पादावस्य व्याघ्रपात, सिंहपाद्, ऋक्षपाद् । अहस्त्यादेरिति किम् ? हस्तिन इव पादावस्य हस्तिपादः, अश्वपादः ।।
हस्तिन, अश्व, कटोल, कटोलक, कण्डोल, कण्डोलक, गण्डोल, गण्डोलक, गडोल, गडोलक, गण्ड, महेला, दासी, गणिका, कुसूल, कपोत, जाल, अज इति हस्त्यादिः ।१४८॥
कुम्भपद्यादिः ॥७. ३. १४९ ॥ ___कुम्भपद्यादयः शब्दाः कृतपात्समासान्ता ड्यन्ता एव बहुव्रीहयो निपात्यन्ते । कुम्भाविव पादावस्याः कुम्भपदी, जालपदी, एकपदी, शतपदी, स्थूणापदी, सूत्रपदी, मुनिपदी, शितिपदी, आर्द्रपदी, गोधापदी, कलशीपदी, दासीपदी, विष्णुपदी, कृष्णपदी, कुणिपदी, गुणपदी, द्रोण (णी)पदी, सकृत्पदी, सूकरपदी, शुचिपदी, सूचोपदी, विपदी, अपदी, निष्पदी, अष्टापदी, अशीतिपदी, इति कुम्भपद्यादिः । येऽत्रोपमानपूर्वास्तेषां पूर्वेण संख्यादीनां चोत्तरेण सिद्धे यदिह वचनं तेन 'वा पादः' (२-४-६) इति ङीविकल्पो न भवति । कथमेकपादिति ? केचिदिहैकपदीशब्दं न पठन्ति ।१४९।
__ न्या० स० कुम्भ० अष्टापदीति संज्ञायां 'नाम्नि' ३-२-७५ इत्यसंज्ञायां तु निपातनाद् दीर्घः। सुसंख्यात् ॥ ७. ३. १५० ॥
सुपूर्वस्य संख्यापूर्वस्य च पादशब्दस्य बहुव्रीही पादित्ययमादेशः समासान्तो भवति । शोभनौ पादावस्य सुपाद्, द्विपाद्, त्रिपात्, चतुष्पात् । स्त्रियां तु वा पादः'-(२-४-६) इति पक्षे डीः । सुपदी सुपात्, द्विपदो द्विपात् ।१५०। वयसि दन्तस्य दतृ ॥ ७. ३. १५१ ॥
सुपूर्वस्य संख्यापूर्वस्य च दन्तशब्दस्य बहुव्रीही वयसि गम्यमाने दतृ