________________
| पाद. ३. सू. १४३-१४६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३४५
समासान्तो भवति, जम्भशब्दोऽभ्यवहार्यवचनो दंष्ट्रावचनो वा । शोभनो जम्भो जम्भा वा अस्य सुजम्भा, हरितजम्भा, तृणजम्भा, सोमजम्भा । दंष्ट्रापक्षे तृणमिव जम्भोऽस्य तृणजम्मा । एवं सोमजम्भा। स्वादिभ्य इति किम् ? चारुजम्भः, प्रतितजम्भः ।१४२। ___ न्या० स० सुहरि०-जम्मो, जम्भा वेति उभयत्रापि वैयाकरणमते पुंस्त्रीलिङ्गः । दक्षिणेर्मा व्याधयोगे ॥ ७. ३. १४३ ॥
दक्षिणेमॆति बहुव्रीहिरन्नन्तो निपात्यते व्याधेन योगे सति । ईमैं बहु वणं वा । दक्षिणमङ्गमीर्ममस्य दक्षिणेऽङ्ग ईममस्येति वा दक्षिणेर्मा मृगः । व्य झुकामस्य व्याधस्य दक्षिणं भागं बहूकृत्य व्यधनानुकूलं स्थितो व्याधेन वा दक्षिणभागे कृतव्रण एवमुच्यते । व्याधयोग इति किम् ? दक्षिणेम शकटम् । दक्षिणेर्मः पशुः ।१४३। सुपूत्युत्सुरभेगेन्धादिद्गुणे ।। ७. ३. १४४ ॥
सुपूतिउत्सुरभि इत्येतेभ्यः परो यो गन्धशब्दो गुणे वर्तते तदन्ताबहुवीहेरित समासान्तो भवति । शोभनो गन्धो गुणोऽस्य सुगन्धि चन्दनम्, प्रतिगन्धि करजम्, उद्गन्धि कमलम्, सुरभिगन्धि केसरम् । उतरत्रागन्तोवचनादिह स्वाभाविकाद्भवति । स्वादिभ्य इति किम् । तीव्रगन्धं हिङ्ग, उग्रगन्धा वचा। गन्धादिति किम् ? सुरसः । गुण इति किम् ? शोभना गन्धाः कुष्ठादयोऽस्य सुगन्ध आपणिकः । इदिति तकार उच्चारणार्थः ।१४४। वागन्तौ ॥ ७. ३. १४५ ॥
स्वादिभ्यः पर आगन्तौ आहार्ये गुणे वर्तते यो गन्धशब्दस्तदन्ताबहव्रीहेरित समासान्तो वा भवति । सुगन्धि सुगन्धं वा शरीरम्, पूतिगन्धि पूतिगन्धं वा जलम्, उद्गन्धिः उद्गन्धो वा आपणः, सुरभिगन्धिः सुरभिगन्धो वा पवनः ।१४५। वाल्पे ॥ ७. ३. १४६ ।।
__ अल्पेऽर्थे यो गन्धशब्दस्तदन्ताबहुव्रोहेरित्समासान्तो वा भवति । सूपस्य गन्धो मात्रास्मिन् सूपगन्धि सूपगन्धं भोजनम् । अल्पसूपमित्यर्थः । माल्यगन्धिः माल्यगन्धः उत्सवः, एवं दधिगन्धि दधिगन्धं भोजनम् । असामानाधिकरण्येऽपि उष्ट्रमुखादित्वाद्बहुव्रीहिः ।१४६।