________________
३४४ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० १४०-१४२ ] नानाजातीयः, किंजातीयः । सामान्यवतीति किम् ? बहुजातिमिः । अत्र ग्रामो न सामान्यवान् किन्तु तत्स्थाः पुरुषाः । अजातीय इत्यत्र तु सामान्यवानेवान्यपदार्थः । प्रतिषेधस्तु नअर्थः । सामान्यग्रहणं किम् ? दुर्जातेः सूतपुत्रस्य । अत्र जातिशब्दो जन्मपर्याय इति न सामान्यवानन्यपदार्थः । कथं पितृस्थानीयः, गुरुस्थानीयः ? स्थानीयं दुर्गमितिवत् स्थीयतेऽस्मिन्निति स्थानीय इत्यधिकरणप्रधानेन स्थानीयशब्देन भविष्यति। पितेव स्थानीयः पितृस्थानीयः ।१३६॥ ___ न्या स० जाते०-यदि सामान्यवतीदं विधानं कथं अजातीय इति ? अत्र हि सामान्य प्रतिषिध्यते न विद्यते जातिरस्येति, न च तस्मिन् प्रतिषिध्यमाने तद्बोधनार्थः संभवतीत्याहअजातीय इत्यादि अयमर्थः, सामान्यवतीति सामान्यमात्रसंबन्धिन्यन्यपदार्थे वाच्ये प्रत्ययो, न तु विधीयमानसामान्यसंबन्धिनीति । भृतिप्रत्ययान्मासादिकः ॥ ७. ३. १४० ॥
भृतौ वर्तमानाद्य: प्रत्ययो विहितस्तदन्तात्परो यो मासशब्दस्तदन्ताबहुवाहेरिकः समासान्तो भवति । पञ्च भतिरस्य पञ्चकः, पञ्चको मासोऽस्य पञ्चकमासिकः, सप्तकमासिकः, विशकमासिकः, त्रिशकमासिकः, शत्यमासिकः, शतिकमासिकः कर्मकरः। भृतिप्रत्ययादिति किम् ? सुमासः। भतिग्रहणं किम् ? वर्षासु भवो वार्षिकः, वार्षिको मासोऽस्य वार्षिकमासकः। प्रत्ययग्रहणं किम् ? भृतिमासोऽस्य भृतिमासकः। मासादिति किम् ? पञ्चको दिवसोऽस्य पञ्चकदिवसकः ।१४०॥ दिपदाद्धर्मादन् ॥ ७. ३. १४१ ॥
धर्मशब्दान्ताद्विपदादबहुव्राहेरन् समासान्तो भवति । साधनामिक धर्मोऽस्य साधधर्मा, क्षत्रियधर्मा, अनन्तधर्मा, विनाशधर्मा । साक्षात्कृतो धर्मो येषां ते (एतैः) साक्षात्कृतधर्माणः । विकल्पमिच्छन्त्येके । कल्याणधर्मा, कल्याणधर्मकः, तद्धर्मा, तद्धर्मकः, विपरीतधर्मा, विपरीतधर्मकः । द्विपदादिति किम ? परमः स्त्रो धर्मोऽस्य परमस्वधर्मः । इह कस्मान्न भवति परमः स्वधर्मोऽस्य परमस्वधर्मः। प्रत्यासत्तेद्विपदस्य बहुव्रोहेर्यदि धर्म एवोत्तरपदं भवति तदा स्यादितीह न भवति ।१४१॥ सुहस्तितृणसोमाज्जम्भात् ॥ ७. ३. १४२ ॥
सु हरित तृण सोम इत्येतेभ्यः परो यो जम्भशब्दस्तदन्तादब्रहवीहेरन