________________
[ पाद. ३. सू. १३६-१३९ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [ ३४३ भवति यथासंख्यं माणवे चरणे च वाच्ये । न विद्यन्ते ऋचोऽस्य अनचो माणवः । बचश्चरण: । माणवचरण इति किम् ? अनुक्कं साम । बवक्कं सूक्तम् । 'ऋक्यूःपथ्यपोऽत्' (७-३-७६ ) इत्येव सिद्ध नियमार्थं वचनम् ।१३५॥
न्या० स० नत्रबहो०-नियमार्थमिति उभयथापि नियमः । . नसुदुर्व्यः सक्तिसक्थिहलेवा ॥ ७. ३. १३६ ॥
नञ् सु दुर् इत्येतेभ्यः परे ये सक्तिसक्थिहलिशब्दास्तदन्ताबहुव्रीहेरप् समासान्तो भवति वा । सजनं सक्तिः, अविद्यमाना सक्तिरस्य असक्तः, असक्तिः, सुसक्तः, सुसक्तिः, दुःसक्तः, दुःसक्तिः, असक्थः, असक्थिः, सुसक्थः, सुसक्थिः, दुःसक्थः, दुःसक्थिः, अहलः, अहलिः, सुहलः, सुहलिः, दुहलः, दुहलिः । नसुदुर्घ्य इति किम् ? गौरसक्थी स्त्री। दीर्घस विथ शकटम, बहुहलिः पुरुषः । हलसक्तशब्दाभ्यां सिद्धे कजभावार्थं वचनम्, तेन न विद्यते हलमस्य अहलक इत्यादि न भवति । सक्तिशब्दान्नेच्छन्त्यन्ये । वचनभेदो यथासंख्यनिवृत्त्यर्थः । १३६।
न्या० स० नसु, कजभावार्थमिति अत्राहल इति साध्यं तच्च हलशब्दस्यापि सिध्यति इति सिद्धौ सत्यां यत् हलिशब्दोपादानं तज्ज्ञापयति हलादपि कच् न भवति, हलिं प्रति तु विचाराशङ्कापि न तेन हल्यन्ताद् वैकल्पिकः कजू भवति । प्रजाया अस् ॥ ७. ३. १३७ ॥
नत्रादिभ्यः परो य: प्रजाशब्दस्तदन्ताबहुव्रीहेरस समासान्तो भवति । अविद्यमानाः प्रजा अस्य अप्रजाः, अप्रजसौ, अप्रजसः, एवं सुप्रजसौ, दुष्प्रजसो ।१३७। मन्दाल्पाच्च मेधायाः ।। ७. ३. १३८॥
मन्द अल्प इत्येताभ्यां नादिभ्यश्च परो यो मेधाशब्दस्त दन्ताबहुव हेरस् समासान्तो भवति । मन्दा मेधास्य मन्दमेधाः, मन्दमेधसौ, मन्दमेधसः । एवमल्पमेधाः, अमेधाः, सुमेधाः, दुर्मेधाः ।१३८१
जातेरीयः सामान्यवति ।। ७. ३. १३९ ॥ • जातिशब्दान्ताबहुव्रीहेरीयः समासान्तो भवति सामान्यवति सामान्याश्रयेऽन्यपदार्थ वाच्ये। ब्राह्मणो जातिरस्य ब्राह्मणजातीयः, अत्र ब्राह्मणशब्देन ब्राह्मणस्था जातिरुच्यते । एवं क्षत्रियजातीयः, सुजातीयः, दुर्जातीयः