________________
३४२] . बृहद्दृत्ति-लघुन्याससंवलिते [पा० ३. सू० १३१-१३५ ] पञ्चमका दिवसाः, कल्याणद्वितीयकान्यहानि । बहुवचनं व्याप्त्यर्थम, तेन कल्याणीपञ्चमा रात्रय इत्यत्र 'ऋन्नित्यदितः' (७-३-१७१) इति परोऽपि कच् न भवति । तत्प्राधान्य इति किम् ? कल्याणपञ्चमीकः पक्षः। पकारो 'नाप्रियादौ' (३-२-५३) इति पर्यु दासार्थः ।१३०॥ नसुव्युपत्रेश्चतुरः ॥ ७. ३. १३१ ॥
नञ् सु वि उप त्रि इत्येतेभ्यः परो यश्चतुःशब्दस्तदन्तात् बहुव्रोहेरप समासान्तो भवति । अविद्यमानानि अदृश्यानि वा चत्वारि यस्य सोऽचतुरः । सुदृश्यानि शोभनानि वा चत्वारि यस्य सुचतुरः, विसदृशानि विगतानि वा चत्वारि यस्य विचतुरः, चत्वारः समीपे येषां संख्येयानां ते उपचतुराः, त्रयो वा चत्वारो वा त्रिचतुराः । समासान्तविधेरनित्यत्वादिह न भवति । त्रयश्चत्वारो यस्य स त्रिचत्वा उन्मुग्धः, उपगताश्चत्वारो येन स उपचत्वाः ।१३१॥
न्या स० नञ् सु०-अत्र सामान्यो बहुव्रीहिः, प्रतिपदोक्तग्रहणे तु 'एकार्थ चानेकं च' ३-१-२२ इति चकारेण विधीयमाने बहुव्रीही अचतुर इत्यादयो न स्युः । अन्तर्बहिया लोग्नः ॥ ७. ३. १३२ ॥
अन्तर् बहिस् इत्येताभ्यां परो यो लोमन्शब्दस्तदन्ताद्वहुव्रीहेर समासान्तो भवति । अन्तर्लोमान्यस्य अन्तर्लोमः, बहिर्लोमः प्रावारः ।१३२। भान्नेतुः ॥ ७. ३. १३३॥
भान्नक्षत्रवाचिनः परो यो नेतृशब्दस्तदन्ताबहुव्रीहेरप समासान्तो भवति । मगो नेता आसां मृगनेत्रा रात्रयः, पुष्यनेत्राः । भादिति किम् ? देवदत्तनेतृकः। नेत्रशब्देनैव सिद्धे नेतृशब्दात्कच् मा भूदिति वचनम् ।१३३। नाभेर्नानि ॥ ७. ३. १३४ ॥
नाभ्यन्ताबहुव्रीहेरफ् समासान्तो भवति नाम्नि अबन्तेन चेत् संज्ञा गम्यते । पद्मनाभः, ऊर्णनाभः, हेमनाभः, वज्रनाभः, हिरण्यनाभः। नाम्नीति किम् ? विकसितवारिजनाभिः। अघोनाभं प्रहतवानिति अव्ययीभावेऽपि तिष्ठद्गावादिषु तथापाठात् सिद्धम् ।१३४। नवहोचो माणवचरणे ॥ ७. ३. १३५॥
नञ् बहु इत्येताभ्यां परो य ऋचशब्दस्तदन्ताबहुव्रीहेरप् समासान्तो