________________
[पाद. ३. सू. १२८-१३० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३४१ वा भवति । द्विमूर्धः, द्विमूर्धा, त्रिमूर्धः, त्रिमूर्धा, द्विमूर्धी स्त्री । बहुव्रीहेरित्येव । द्वयोमर्धा द्विमूर्धा ।१२७॥
प्रमाणीसंख्याइडः ॥ ७. ३. १२८ ॥ ___ प्रमाणी शब्दान्तात्संख्यावाचिशब्दान्ताच्च बहुव्री हेर्डः समासान्तो भवति । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुम्बिनः, भार्याप्रमाणाः श्रेणयः, कल्याणी प्रमाण्यस्य कल्याणप्रमाणः। संख्या, द्वौ वा त्रयो वा द्वित्राः, पञ्चषाः, द्विदशाः, त्रिदशाः, आसन्नदशाः, अदूरदशाः, अधिकदशाः, उपदशाः, उपगणाः । प्रमाणशब्देन सिद्धे प्रमाणीशब्दान्तात्कजभावार्थं वचनम् । संख्यान्तस्य प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहणादिह न भवति । अत्रिः । सुत्रिः, प्रियपञ्चानः, प्रियषषः । बहुव्रोहेरित्येव । द्वादश, त्रयोदश ।१२८।।
न्या० स० प्रमा०—अत्रिरिति तत्र संख्यावाचिना नाम्ना संख्येयेऽन्यपदार्थ इति व्याख्यानात् 'अव्ययम् ' ३-१-२१ इति न समासः, अत्र तूत्तरपदं संख्येयवाचि ।
प्रियषष इति स्त्रीत्वेऽपि 'यापः' २-४-९९ इति ह्रस्वः, अन्यथा षष उपादानानुपादानयोरविशेष इति लिङ्गानुशासने ष्णन्ता संख्येत्यत्रानुपपन्नं स्यात् । सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्टपदभद्रपदम्
॥७. ३. १२९ ॥ सुप्रातादयो बहुव्रीहयो डप्रत्ययान्ता निपात्यन्ते । शोभनं कर्म प्रातरस्य सुप्रातः, शोभनं कर्म श्वोऽस्य सुश्वः । शोभनं कर्म दिवास्य सुदिवः, शारेरिव कुक्षिरस्य शारिकुक्षः, चतस्रोऽश्रयो यस्य चतुरश्रः, एण्या इव पादावस्य एणीपदः, एवमजपदः, प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः, भद्रौ पादावस्य भद्रपदः । निपातनात्पद्भावो विषय व्यवस्था च भवति ।१२९। पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७. ३. १३०॥
पूरणप्रत्ययान्तः स्त्रीलिङ्गशब्दः पूरणी तदन्ताबहुव्रीहेरप् समासान्तो भवति तत्प्राधान्ये तस्याः पूरण्याः प्राधान्ये, समासेनाभिधीयमानो ह्यर्थः प्रधान भवति । कल्याणी पञ्चमी रात्रिर्यासां रात्रोणां ताः कल्याणीपञ्चमा रात्रयः । अत्र रात्रयः समासार्थः। तासु पञ्चम्यपि रात्रित्वेनानुप्रविष्टेति प्रधानम् । एवं कल्याणीदशमाः, कल्याणोतुर्याः । कल्याणीतुरीयाः, कल्याणीद्वितीयाः, कल्याणीतृतीयाः। पूरणीभ्य इति किम् ? द्वितीया भार्या कल्याणी यासां भार्याणां ता द्वितीयाकल्याणीकाः । स्त्रीत्वनिर्देशः किम् ? कल्याण