________________
[पाद ३. सू. १२०-१२३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३३९ सर्वरात्रः अंश, पूर्वरात्रः, अपररात्रः, अर्घरात्रः, द्वितीयरात्रः। संख्या, द्वयो रात्र्योः समाहारः द्विरात्रः, त्रिरात्रः। द्वयो रात्र्योर्भवः द्विरात्रः, द्विरात्रा, त्रिरात्रः त्रिरात्रा, द्विरात्रप्रियः, त्रिरात्रप्रियः, द्विरात्रजातः, त्रिरात्रजातः, अव्यय,अतिरात्रः, अतिरात्रा, नीरात्रः, नीरात्रा। एकग्रहणं संख्याग्रहणेनानेनैकस्याग्रहणार्थम् । तेन पूर्वसूत्र संख्याशब्देनकस्याग्रहणम् । एकमहः एकाहम् । अटि प्रकृतेऽविधानं स्त्रियां ड्यभावार्थम् । ११९।।
पुरुषायुषद्रिस्तावत्रिस्तावम् ॥ ७. ३. १२० ॥ ___ एतेऽत्प्रत्ययान्तास्तत्पुरुषा निपात्यन्ते । पुरुषस्यायुः पुरुषायुषम्, द्विस्तावती द्विस्तावा, त्रिस्तावा वेदिः, वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात् । प्रकृतौ यावती वेदिस्तावती द्विगुणा त्रिगुणा वा कस्यांचिद्विकृती भवति । प्रकृतिविकृती यागविशेषौ । अन्यत्रापि दृश्यते । द्विस्तावोऽग्निः, त्रिस्तावोऽग्निः ।१२०।
श्वसो वसीयसः ॥ ७. ३. १२१ ॥
__ श्वसः परो यो वसीयस्शब्दस्तदन्तात्तत्पुरुषादत्समासान्ती भवति । वसुमच्छब्दादीयसौ मतोरन्त्यस्वरादेश्च लोपे वसीयः, शोभनं वसीयः श्वोवसीयसं कल्याणम् ।१२१॥ निसश्च श्रेयसः ॥ ७. ३. १२२ ॥
निस्शब्दात् श्वस्शब्दाच्च परो यः श्रेयस्शब्दस्तदन्तात्तत्पुरुषादत् समासान्तो भवति । निश्चितं श्रेय: निःश्रेयसं निर्वाणम् । शोभनं श्रेयः श्वःश्रेयसम् ।१२२। नत्रव्ययात्संख्याया डः ॥ ७. ३. १२३॥
नञोऽव्ययाच्च परो यः संख्याशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । न दश अदशाः, अनवाः । न्यूना दश न्यूना नव इत्यर्थः । नञ्पूर्वोऽयं वैकल्ये दृश्यते । अव्यय, निर्गतस्त्रिंशतोऽङ्गुलिभ्यः निस्त्रिंशः खङ्गः, निनिश इव क्रूरकर्मा निस्त्रिंशः खलः, । त्रिंशतो निर्गतानि निस्त्रिंशानि वर्षाणि, निख्रिशान्यहानि, निश्चत्वारिंशानि, निष्पञ्चाशानि । नत्रव्ययादिति किम् ? गोत्रिंशत् । नग्रहणं 'नञ्तत्पुरुषात्' (७-३-७१) इति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । संख्याया इति किम् ? निःशकृत् । तत्पुरुषादित्येव । न