________________
३३८ ] बृहवृत्ति-लघुन्याससवलिते [पाद. ३ सू० ११६-११९ ] तीक्ष्णायसम् । अयो जातिविशेषा एते । लोहितायसमिति नामेत्येके । जातिनाम्नोरिति किम् ? परमसरः, सदनः, सदश्मा । कथं बिन्दुसरः बकसर इति । नैषा संज्ञा, रूढया ह्यत्र संज्ञाविज्ञानं शूर्पनखीवत् ।११५॥
न्या० स० सरो०-यथासंभवमिति क्वापि जातौ क्वापि नाम्नि चेत्यर्थः । महानसमिति अन इवानः महच्च तदनश्च ।
गोनसमिति गवामन इव गोनसमहिजातिः, बाहुलकान्नपुंसकः । अह्नः ॥ ७. ३. ११६ ॥
अहनशब्दान्तात्तत्पुरुषादट समासान्तो भवति । परमाहः, उत्तमाहः, एकाहम्, पुण्याहम, सुदिनाहम् ।११६। संख्यातादह्नश्च वा ॥ ७. ३. ११७ ॥
संख्यातशब्दात्परो योऽहनशब्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति तस्य चाहनशब्दस्याहनादेशो वा भवति । संख्यातमहः संख्याताह्नः संख्याताहः । अह्नादेशाथं वचनम्, अट् तु पूर्वेणैव सिद्धः। चकार उत्तरत्राहनादेशस्याट्संनियोगशिष्टत्वार्थः । अन्यथा ह्यटोऽपवादोऽह्नादेशो विज्ञायेत, तथा च स्त्रियां ङीन स्यात् ।११७।
न्या० स० संख्या -अलादेश इति 'अतोऽह्नस्य' २-३-७३ इति 'संख्यासायवेः' १-४-५० इति च ज्ञापकान्न प्रत्ययशका । सीशसंख्याव्ययात् ॥ ७. ३. ११८ ।।
सर्वशब्दादंश एकदेशस्तद्वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽहन्शब्दस्तदन्तात् तत्पुरुषादट् समासान्तो भवति तस्य चाहन्शब्दस्य नित्यमह्नादेशो भवति । सर्वमहः सर्वाल, अंश, पूर्वाह्नः, अपरालः, मध्याह्नः, सायाह्नः। संख्या, द्वयोरनोर्भवः व्यह्नः पटः, व्यहनीः अष्टका, एवं त्र्यहनः, त्र्यहनी, द्वे अहनी प्रिये यस्य स ब्यहनप्रियः, त्र्यहनप्रियः, द्वे अहनी जातस्य यहनजातः, त्र्यहनजातः, अव्यय, अत्यहनः, अत्यहनी कथा, निरहूनः, निरहनी वेला, व्यहनः, व्यहनी ।११८ संख्यातैकपुण्यवर्षादीर्घाच्च रात्ररत् ॥ ७. ३. ११९ ॥
संख्यात, एक, पुण्य, वर्षा, दीर्घ इत्येतेभ्यश्चकारात्स शादिभ्यश्च परो यो रात्रिशब्दस्तदन्तात्तत्पुरुषादत् समासान्तो भवति । संख्यावा रात्रिः संख्यातरात्रः, एकरात्रः, पुण्यरात्रः, वर्षाणां रात्रिः वर्षा रात्रः, दीर्घरात्रः,