________________
[ पाद. ३. सू, ११३-११५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३३७ वर्तते य उपमानवाची श्वन्शब्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति । श्वेव श्वा आकर्षश्चासौ श्वा च आकर्षश्वः । एवं फलकश्वः, शकटश्वः। अप्राणिनीति किम् ? वानरः श्वव वानरश्वा । उपमानादित्येव ? आकर्षे श्वा आकर्षश्वा । कुक्कुरवच्छारेऽपि श्वन शब्दो रूढो नोपमानम् । तत्राप्युपमानादेव वर्तत इत्येके, तन्मते आकर्षश्व इत्येव भवति । केचित्तपमानादिति नापेक्षन्ते तन्मते आकर्षे श्वा आकर्षश्वः शकटश्व इत्येव भवति । अन्ये तूपमानादप्राणिनीति एकमेव योगमारभन्ते, तन्मते व्याघ्रश्व इत्यादि न भवति ।११२॥
न्या० स० अप्रा० एकमेव योगमिति ते हि अस्यैव सूत्रस्य विषयमाद्रियन्ते, न तु पूर्वस्य 'प्राणिन उपमानात् ' ७-३-१११ इत्यस्य । पूर्वोत्तरमृगाच्च सक्थ्नः ।। ७. ३. ११३ ।।
पूर्वोत्तरमग इत्येतेभ्य उपमानवाचिनश्च शब्दात्परो यः सक्थिशब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति । पूर्वं सक्थि सक्थ्नः पूर्वं वा पूर्वसक्थम्, एवमुत्तर सक्थम्, मृगस्य सक्थि मृगसक्थम्, उपमानात्, फलकमिव फलकम्, फलक च तत् सक्थि च फलकसक्थम्, व्याघ्रश्वादिवत्समासः। पूर्वशब्दान्नेच्छन्त्येके कुक्कुटादपीच्छन्त्यन्ये । कुक्कुट सक्थम् ।११३। ___ न्या० स० पूर्वोत्तर, व्याघ्रश्वादिवदिति वचनसामर्थ्यान्मयूरव्यंसकादित्वाद् वेत्यर्थः, एतच्च 'प्राणिन उपमानात् ' ७-३-१११ इत्यत्र दर्शितमस्ति ।
उरसोऽग्रे ॥ ७. ३. ११४ ॥ ___ अग्रं मुखं प्रधानं वा तत्र वर्तमानो य उरस्शब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति । अश्वाश्च ते उरश्च अश्वोरसं दृश्यते, सेनाया अश्वा मुखमित्यर्थः, अश्वातामुरः अश्वोरसं वर्जयेत् । अश्वानां मुखमग्रदेशमित्यर्थः ।। अश्वानामुरः अश्वोरसम् अश्वानां प्रधान मित्यर्थः। एवं हस्त्युरसम्, रथोरसम् । अग्र इति किम् ? अश्वोरस्यावर्तः ।११४।
सरोऽनोऽश्मायसो जातिनानोः ॥७. ३. ११५ ।।
___ सरस्, अनस्, अश्मन्, अयस् इत्येतदन्तात्तत्पुरुषादट् समासान्तो भवति जातावभिधेयायां नाम्नि च विषये । इदं च यथासभवं विशेषणम् । जातसरसम्, मण्डूकसरसम, एवंनाम्नो सरसी। मण्डूकसरसमिति जातिरित्येके । उपानसमिति अन्नविशेषस्य संज्ञा जातिर्वा । महानसं पाकस्थानस्य संज्ञा । राज्ञ उपस्थितमित्येके । गोनसं जातिः, स्थूलाश्मः अमृताश्मः कनकाश्मः । अश्मजातिविशेषा एते । पिण्डाश्मः संज्ञा जातिर्वा । कालायसम्, लोहितायसम्,