________________
[ पाद. ३ सू० १९०८- ११२ ]
३-३६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
कुमहद्भ्यां वा ॥ ७. ३. १०८ ॥
कु महदित्येताभ्यां परो यो ब्रह्मन् शब्दस्तदन्तात्तत्पुरुषाद्वाट् समासान्त भवति । पापो ब्रह्मा कुब्रह्मा कुब्रहमः, महान् ब्रह्मा महाब्रह्मः महाब्रह्मा, पापो महांश्च ब्राह्मण एवमुच्यते ॥ १०८ ॥
ग्रामकोटात्तक्ष्णः ॥ ७. ३. १०९ ॥
ग्रामकोट इत्येताभ्यां परो यस्तक्षन् शब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति । ग्रामस्य तक्षा ग्रामतक्षः, ग्रामसाधारण इत्यर्थः । कुटी शाला तस्यां भवः कौटः कोटस्तक्षा कोटतक्षः, स्वापणशालायां यः कर्म करोति स्वतन्त्रो न कस्यचित्प्रतिबद्ध इत्यर्थः । ग्रामकोटादिति किम् ? राजतक्षा । तत्पुरुषादित्येव । ग्रामश्च तक्षा च ग्रामतक्षाणों । कौटस्तक्षास्य कोटतक्षा ।। १०९ ।। गोष्ठातेः ः शुनः ॥ ७. ३. ११० ॥
गोष्ठ अति इत्येताभ्यां परो यः श्वन्शब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति गोष्ठे श्वा गोष्ठश्वः, अतिक्रान्तः श्वानम् अतिश्वो वराहः अतिजवन इत्यर्थ: । अतिश्वः सेवकः । सुष्ठु स्वामिभक्त इत्यर्थः । अतिश्वी सेवा । अतिनीचेत्यर्थः ॥ ११०॥
प्राणिन उपमानात् ॥ ७. ३. १११ ॥
प्राणिवाचिन उपमानात्परो यः श्वन् शब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति । व्याघ्र इव व्याघ्रः स चासौ श्वा च व्याघ्रश्वः, ' उपमेयं व्याघ्राद्यैः साम्यानुक्ती' ( ३-१-१०२ ) इति समासः । अत एव वचनात् श्वन्शब्दस्य परनिपातः । मयूरव्यंसकादित्वाद्वा समासः । एवं सिंहश्वः, वृकश्वः । प्राणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति । वानरः श्वेव वानरश्वा ।
प्राणिन इति किम् ? फलकमिव श्वा फलकश्वा । उपमानग्रहणं किम् ? देवदत्तश्वा । प्राणी उपमानभूतो यः श्वाशब्दः तदन्तात्तत्पुरुषादिच्छन्त्येके । व्याघ्रः श्वेव व्याघ्रश्वः । एवं सिंहश्वः, वृकश्व:, पुरुषश्वः तन्मते वानरश्वेत्यत्र समासान्तविधेरनित्यत्वान्न भवति ॥ १११ ॥
:
न्या० स० प्राणि०—परनिपात इति प्रथमोक्तत्वेन उपमेयस्य पूर्वनिपाते प्राप्ते । अप्राणिनि ।। ७. ३. ११२ ॥
पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणम् इह तु शुनः, अप्राणिनि