________________
पाद. ३. सू. १०५-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३३५ टकारो झ्यर्थः । अर्धनावम् अर्धनावीति हि स्त्रीनपुसकयोदृश्यते ॥१०४।।
न्या स० नाव:-अर्धनाबमित्यादि अर्धपूर्वपदो नाव इत्ति स्त्रोक्लोक्त्वे भवतः । गोस्तत्पुरुषात् ॥ ७. ३. १०५ ॥
- गोशब्दान्तात्तत्पुरुषादलुकोऽट् समासान्तो भवति । राज्ञो गौ राजगवः, राजगवी, पुंगवः, स्त्रीगबी, अतिगवः, अतिगवी, पञ्चगवम्, दशगवम्, पञ्चगवमबम, पञ्चगवरूप्यम्, पञ्चगवधनः, दशगवधनः, दशगबप्रियः। तत्पुरुषादिति किम् ? चित्रगुः । अलक इत्येव । पञ्चभिर्मोभिः कोतः पञ्चगुः ॥१०॥ राजन्सखेः ॥ ७. ३. १०६ ॥
अलुक इति निवृत्तम् पृथग्योगात् । राजन् सखि इत्येतदन्तात्तत्पुरुषाद समासान्तो भवति । देवानां राजा देवराजः, महांश्चासौ राजा च महाराजः, अतिक्रान्तो राजानमतिराजः, अतिराजो। पञ्चानां राज्ञां समाहारः पञ्चराजी, दशराजी । पञ्चभी राजभिः क्रीतः पश्चराजः, पञ्चराजी, पञ्चराजप्रियः । सखि,-राजसखः, महासखः, अतिसखः, अतिसखी, पञ्चसखम्, दशसखम्, पनासखः, पञ्चसखी, पञ्चसखप्रियः, राजन्निति नान्तनिर्देशादनकारान्तान्न भवति । मद्राणां राशी मद्रराज्ञी, विद्याराज्ञी, महासज्ञी। सखीशब्दात्त्वटि सत्यसति बा न रूपभेदः ॥१०६।।
न्या. सराजन्०-नान्तनिर्देशादिति नामग्रहणे इति न्यायात् अटि सति ' जातिश्च णि' ३-२-५१ इति धुवावे मद्रराजीति प्राप्नोतीत्याशका । न रूपमेद इति सखीशब्दस्य ईकारान्तस्यापि पश्चानां सखीनां समाहार इलि 'क्लीबे' २-४-९७ इति ह्रस्वत्वे इदन्तादेवाद भवति, तथा च पश्नसखमिति, तथा सखीमतिक्रान्त इति कृले सखीशब्दादडभावेऽपि 'गोश्चान्त' २-४-९६ झति कृते सखिद्वारेणाद प्राप्नोत्येव, तथा पञ्चानां सखी इत्यपि कृते अटि अडभावेऽपि तत्पुरुषस्योत्तरपदप्रधानत्वात् पञ्चसखीत्येव रूपम् , एवमन्यदषि रूपभेदाहेतुकमभ्यूह्यम् । . . राष्ट्राख्याद्ब्रह्मणः ॥ ७. ३. १०७ ॥
राष्ट्रवाचिनः परो यो ब्रह्मन्शब्दस्तदन्तासत्पुरुषाद समासान्तो भवति । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः, यः सुराष्ट्रेषु वसति स सौराष्ट्रिको ब्राह्मण इत्यर्थः ॥ एवमवन्तिब्रह्मः, काशिब्रह्मः । ।
राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः । आख्यग्रहणं राष्ट्रबाच्यर्थम् ॥१०७॥