________________
३३४ ] बृहवृत्ति-लघुन्याससंलिते [पाद. ३ सू० १०३-१०४ ] इत्यादिना इस्वत्वे द्विखारिः । स्त्रीत्वमप्यन्ये । तन्मते पूर्ववदध्रस्वत्वे. "इतोऽक्त्यर्थात् ' (२-४-३२) इति ङ्यां च द्विखारी। एवं पञ्चखारम् पञ्चखारी, द्विखारमयम, द्विखारीमयम्, पञ्चखाररूध्यम्, पञ्चखारीरूप्यम्, द्विखारप्रियः, द्विखारीप्रियः, पञ्चखार धनः, पञ्चखारीधनः । द्विगोरित्येव ? उपखारि, अधिखारि । अलुक इत्यस्य प्रत्युदाहरणं नास्ति विशेषाभावात् । यतस्तद्धितलुक्यडभावेऽपि 'यादे:'-(२-४-९४) इत्यादिना डोलुकि पुन्नपुंसकयो द्विखारः द्विखारम्, स्त्रियां तु 'परिमाणात्तद्धितलुकि'-(२-३-२३) इत्यादिना डीप्रत्यये द्विखारीति भवति । एतच्च त्रैरूप्यमट्यपि भवति । इदन्तात् इयां खारीत्येके । तदा तु अस्त्येव विशेषः ।१०२।।
न्या. स. खार्या–पुंस्त्वमपीच्छन्तीति स्थिते तु अन्यस्तु सर्वो नपुंसक इति क्लीबत्वमेव । द्विखार इति भवेदमादावण कीते त्वर्थे 'खारीकाकणीभ्यः कच् ' ६-४-१४९ प्राप्नोति तस्य च विधानसामर्थ्यात् लुप् न भवति 'द्विगोरनपत्ये ६-१-२४ इत्यणो लुप् । द्विखारीति दे खार्यो मानमस्याः स्यात् , 'मात्रद' ७-१-१४५ इति मात्रटू 'द्विगोः संशये च' ७-१-१४४ इति लुप् 'परिमाणात्' २-४-२३ इति ङीः ।
इदन्तात् ज्यामिति स्वमते तु खारडिति निपातने टानुबन्धात् टिद्वारेण ङीः । अस्त्येव विशेष इति यतस्तद्धितलुकि इदन्ता प्रकृतिरवतिष्ठते ।
वार्धाच्च ।। ७. ३. १०३॥ ___अर्धशब्दात्परो यः खारीशब्दस्तदन्ताच्च समासादलुकोऽट् समासान्तो वा भवति । 'समेंऽशेऽधं नवा' (३-१-५४) इत्यर्धशब्दे यः प्रतिपदं समास उक्तस्तत्रायं विधिः, अर्घ खार्याः अर्धखारम् अर्धखारी। विधानसामर्थ्यादडन्तस्य न स्त्रियां वत्तिः । चकारो द्विगोरनुकर्षणार्थः । तेनोत्तरत्र द्वयमप्यनुवर्तते ॥१०३॥
न्या. स. वार्धा०-प्रतिपदमिति लक्षणप्रतिपदोक्तयोः' इति न्यायात् , तत्रायं विधिरिति न बहुव्रीह्यादी । द्वयमपीति इह तु प्रयोजनम् । नावः ॥ ७. ३. १०४ ॥
अर्धशब्दात्परो यो नौशब्दस्तदन्तात्समासात् द्विगोश्च नौशब्दान्तादलुकोऽट समासान्तो भवति । अर्धं नाव: अर्धनावम् अर्धनावी, द्विगोः, द्विनावम, पञ्चनावम, द्विनावमयम्, पञ्चनावमयम्, द्विनावरूप्यम्, पञ्चनांवरूप्यम, द्विनावप्रियः, द्विनावधनः । अलुक इत्येव ? द्वाभ्यां नौभ्यां क्रीतः द्विनीः, पञ्चनौः। द्विगोरित्येव ? द्वयोनौंः द्विनौः, अर्धादित्येव ? राजनौः, परमनौः।