SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ [ 'पाद. ३. सू. १००-१०२ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [ ३३३ पञ्च तक्षाणः समाहृताः पञ्चतक्षी, पञ्चतक्षम्, दशोक्षी, दशोक्षम्, शतराजी, शतराजम्, यहः, व्यहः । द्विगोरिति किम् ? समाहृतास्तक्षाणः संतक्षाणः, समाहृतान्यहानिः समनाः। 'सर्वांशसंख्याव्ययात्' (७-३-११८) इत्यत् । समाहार इत्येव ? . द्वाभ्यासुनभ्यां क्रीतः व्युक्षा, न्युक्षा, द्वयोर नोर्भवः व्धनः, व्यह्नः । अन्नन्तत्वेनैव सिद्धेऽह्न इदमविधानं समाहारे ' सर्वाशसंख्याव्ययात् ' (७-३-११८) इति परस्याप्यटो बाधनार्थम् । तस्मिन् हि सत्यनादेशः स्यात् ।९९ दिञरायुषः ॥ ७. ३. १००। द्वित्रि इत्येताभ्यां परो य आयुष्शब्दस्तदन्तात् द्विगोः समाहारे वर्तमानादट् समासान्तो भवति । द्वयोरायुषोः समाहारो द्वथायुषम्, व्यायुषम् । द्विवेरिति किम् ? चतुरायुः । समाहारे इत्येव ? द्वधायु:प्रियः । त्र्यायुःप्रियः ११००१ वाजलेरलुकः ॥ ७. ३. १०१ ॥ द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्तात् द्विगोरट् समासान्तो वा भवति न चेत्स द्विगुस्तद्धितलुगन्तो भवति । द्वयोरजल्योः समाहारः द्वयजलम्, यञ्जलि, व्यञ्जलम्, व्यञ्जलि । द्वाभ्यामञ्जलिभ्यामागतं द्वथञ्जलमयम्, दथञ्जलिमयम्, द्वथञ्जलरूप्यम्, द्वधञ्जलिरूप्यम्, व्यञ्जलमयम्, त्र्यञ्जलिमयम्, व्यञ्जलरूप्यम्, त्र्यमलिरूप्यम् । द्वावजली प्रियो यस्य द्वयजलप्रियः द्वधञ्जलिप्रियः, यजलप्रियः व्यञ्जलिप्रियः अलुक इति किम् ? द्वाभ्यामञ्जलिभ्यां क्रीतः द्वयञ्जलिर्घटः, यजलिर्घटः। द्विगोरित्येव ? द्वयोरञ्जलिः द्वयञ्जलिः, व्यञ्जलिः । द्वावजली अस्य द्वयञ्जलिकः, व्यञ्जलिकः । नित्योऽयं विधिरित्येके ।१०१।। न्या० स० वाज.-द्विगोरिति अत्र समाहारो नानुवर्तते अपेक्षात इति वचनात्, समाहारे लुक् न संभवतीति अलुक इति वचनादेवेति न वाच्यं समाहारादपि तद्धितलोपसंभवात् यथा द्वयञ्जलेन क्रीत इकणो लुपि समासान्तनिवृत्तौ द्वयञ्जलिर्घट इत्यत्र, अलुक इत्यस्य चरितार्थत्वात् । खार्या वा ॥ ७. ३. १०२॥ पृथग्योगाद्वित्रेरिति निवृत्तम्, खारीशब्दान्तात् द्विगोरलुकोऽट् समासान्तो वा भवति । द्विखारम् । पक्षे 'क्लीबे' (२-४-९६) इति इस्वत्वे द्विखारि । केचिदत्र पुंस्त्वमपीच्छन्ति, तन्मते 'गोश्वान्ते'-(२-४-९५)
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy