________________
३२८ ]
बृहवृत्ति-लघुन्याससंलिते [पाद. ३ सू० ७९-८२ , कृष्णा भूमिः कृष्णभूमम्, कृष्णभूमो देशः । भूमोऽसंख्यात एकार्थ इति । पाण्डुभूमादेनंपुसकत्वम् । संख्यादिभ्य इति किम् ? सर्वभूमिः । ७८। । उपसर्गादध्वनः ॥ ७. ३. ७९॥
उपसर्गात् धातुयोमे यः प्रादिरुपसर्गसंज्ञां लभते तस्मात्परादध्वनोऽत समासान्तो भवति । प्रगतमध्वानं प्राध्वं शकटम्, प्राध्वो रथः, उपकान्तमध्वानमुपाध्वम् निरध्वम्, अत्यध्वम् । ७९ । समवान्धात्तमसः ॥ ७. ३.८०॥
सम अब अन्ध इत्येतेभ्यः परो यस्तमसशब्दस्तदन्तात्समासादत् समासान्तो भवति । संततं तमः संततं तमसा संततं तमोऽस्मिन्निति वा संतमसम् । अवहीनं तमोऽवहीनं तमसा अवहीनं तमोऽस्मिन्निति वा अवतमसम् । अन्धं करोतीत्यन्धम्, अन्धं च तत्तमश्च अन्धं तमोऽस्मिन्निति वा अन्धतमसम्, अन्धश्च तमश्चति अन्धतमसम् अन्धतमसे वा । ८०।
न्या० स० सम०-अन्ध करोतीति अन्धण् इत्येतस्याचि ततः करोत्यर्थे णिचि ततोऽचि सामानाधिकरण्यम। तप्तान्वबादहसः ॥ ७. ३. ८१ ॥
रह इति अप्रकाश्यं विजनं वा। तप्त, अनु, अव इत्येतत्पूर्वो यो रहःशब्दस्तदन्तान्तादत्समासादत्समासान्तो भवति । तप्तं तप्ताय इवानधिगम्यं रहः तप्तरहसम्, तप्तं रहोऽस्येति तप्तरहसः, अनुगत रहोऽनुगतं रहसा वा अनुरहसम्, अनुगतं रहोऽस्येति अनुरहसः । अवहीनं रहोऽवहीनं रहसा वा अवरहसम्, अवहीनं रहोऽस्येत्यवरहसः। ८१ । प्रत्यन्ववात्सामलोग्नः ॥ ७. ३. ८२ ॥
प्रति अनु अव इत्येतेभ्यः परौ यो सामनुलोमनशब्दौ तदन्तात्समासादत्समासान्तो भवति । प्रतिगतं साम प्रतिसामम, प्रतिगतं सामास्य प्रतिसामः, एवमनुसामम् अनुसामः, अवसामम् अवसामः, प्रतिलोमम् प्रतिलोमः, अनुलोमम् अनुलोमः, अवलोमम्, अवलोमः । अव्ययीभावे तु परत्वाद्विकल्पः ।
साम साम प्रति सानोऽभिमुखं वा प्रतिसाम, प्रतिसामम् । साम सामानु साम्नः समीपं साम्ना तुल्यायामं वा अनुसाम, अनुसामम् एवं प्रतिलोम, प्रतिलोमम्, अनुलोम, अनुलोमम् । प्रत्यन्ववादिति किम् ? निःषाम