________________
पाद. ३. सू, ७६-७८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३२७ तिष्ठद्ग्वादित्वादव्ययीभावः । उभाबाहु उभयाबाह्वित्यत्र निपातनादिज्लुपि स्थानिवद्धावादिजन्तत्वेनाव्ययीभावसंज्ञा। विभक्त्यलुक पादस्य पद्भावः समानस्थ सभावश्चेत्यादि सर्वं निपातनात् सिद्धम् । क्रियाविशेषणाच्चान्यत्र न भवति । द्वौ दण्डावस्यां शालायां । द्विदण्डा, द्विमुसला । ७५ ।
न्या० स० द्विद०-उभयापाणीति उभस्य उभयोऽद्वित्वे इत्यनुपदकारसूत्रं ततः उभयः पाणिः उभयो वा पाणयो यस्मिन्नित्येकत्वे बहुत्वे एच वाक्यं कार्य, एवमन्यत्राऽपि ।
ऋकपूःपथ्यपोऽत् ।। ७. ३. ७६ ॥ ___ ऋच्, पुर, पथिन्, अप् इत्येतदन्तात्समासादत् अकारः समासान्तो भवति । ऋचोऽर्धम् अर्धर्चः, ऋचः समोपमुपर्चम्, सप्तर्च सूक्तम्, उच्चारितर्चः । पुर्, श्रियाः पूः श्रीश्चासौ पूश्चेति वा श्रीपुरम्, पिष्टपुरम, 'त्रिपुरम्, स्फोतपुरो देशः । पथिन्, जलपथः, स्थलपथः, उपपथम्, प्रतिपथम्, विशालपथं नगरम्, अप, द्विर्गता आपोऽस्मिन् द्वीपम्, समीपम्, प्रतीपम् बह्वपं तडागम्, पुरपथशब्दाभ्यां सिद्धे पुर् पथिन् इत्येतयोरुपादानमेतद्विषये प्रयोगनिवृत्त्यर्थम् । ७६ ।
न्या० स० ऋक्पू:०-त्रिपुरीमति तिसृणां पुरां समाहारः, उत्तरपदस्यादन्तत्वाभावात् स्त्रीत्वाभावः, किंतु अन्यस्तु सर्वो नपुंसकः प्रयोगनिवृत्त्यर्थमिति समासान्तविषये व्यञ्जनान्तयोः प्रयोगो न भवतीत्यर्थः। धुरोऽनक्षस्य ॥ ७. ३. ७७ ।।
धुरन्तात्समासादत् समासान्तो भवति सा चेद्धः अक्षसंबन्धिनी न भवति । राज्यधुरा, रणधुरा द्विधुरी, त्रिधुरी, उपधुरम् महाधुरं शकटम् । अनक्षस्येति किम् ? अक्षधूः दृढधूरक्षः । ७७ ।
न्या० स० धुरो०- अक्षसंबन्धिनी नेति शब्दद्वारकमेतन्नार्थद्वारकम, सेन महाधुरै शकटमिति सिद्धम् ।
द्विधुरीत्यादि द्वयोः धुरोः समाहारः, तिसृणां धुरां समाहारः, अन्यस्तु सर्वो नपुंसक इति वचने सत्यपि तद्बहुलमिति स्त्रीत्वे 'द्विगोः' २-४-२२ इति डीः । संख्यापाण्डूदककृष्णा मेः ७. ३. ७८ ॥
संख्यावाचिभ्यः पाण्डु उदच् कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूमिशब्दस्तदन्तात्समासादत्समासान्तो भवति । द्वयोभूम्योः समाहारो द्विभूमम्, त्रिभूमम् द्वे भूमो अस्य द्विभूम: त्रिभूमः प्रासादः पाण्डुभूमिः पाण्डुभूमम् पाण्डुभूमो देशः, उदीची भूमिः उदग्भूमम्, उदग्भूमो देशः,