________________
३२६ ] बृहवृत्ति-लधुन्याससंकलते [पाद. ३ सू० ७३-७५ । परमराजः, परमसख:, परमगवः । प्राक्टादिति किम् ? स्वालं काष्ठम् अत्यङ्गुलं काष्ठम्, सुसक्थः, अतिसक्थः, स्वक्षः, अत्यक्षः १७२। बहोडे ।। ७. ३.७३ ।।
डे डविषये डप्रसङ्गो यत्र ततो बह्वन्तात्समासान्तो ड: कच् च न भवति । आसन्ना बहवो येषां ते आसन्नबहवः, उपबहवः । बहोरिति किम् ? द्वित्राः, उपदशाः । ड इति किम् ? प्रिया बहवोऽस्य प्रियबहुकः ।७३।
न्या० स० बहो०-आसन्नबहव इति 'आसन्नदूर' ३-१-२० इति सः, 'बहुगणं भेदे' १-१-४० इति संख्यावभावात् 'प्रमाणीसंख्याड्डः '७-३-१२८ इति ड प्रत्ययःप्राप्नोति, तस्मिन् निषिद्धे 'शेषाद् वा' ७-२-१७५ इति कच्च प्राप्नोति, उभयस्यापि सामान्येनाऽयं प्रतिषेध इत्युभयमपि न भवति ।
उपबहव इति 'अव्ययम् ' ३-१-२१ इति समासः ।
प्रियबहक इति ' एकार्थ चाऽनेक च' ३-१-२२ इति सामान्यसमासः, ततः 'प्रमाणीसंख्याडू डः' ७-३-१२८ इत्यत्र प्रतिपदोक्तबहुव्रीहेर्ग्रहणात् बहोवैपुल्यर्थत्वेन वा संख्यात्वाभावे डः समासान्तो न भवति किंतु कच् । इच् युद्ध ॥ ७. ३. ७४ ॥ .
युद्धे यः समासो विहितस्तस्मादिच् समासान्तो भवति । केशाके शि, दण्डादण्डि, मुसलामुसलि, मुष्टामुष्टि, अस्यसि । चकारः 'इच्यस्वरे दीर्घ आच्च' (३-२-७२) इत्यत्र विशेषणार्थः ।७४।
न्या० स० इच् युद्ध-विशेषणार्थ इति अथ तत्राऽपि इरित्येव क्रियताम् ? न, तथा सति 'दृतिनाथात् पशाविः' ५-१-९७ इत्यस्मिन्नपीकारे दीर्घप्रसङ्गः । द्विदण्डयादिः ॥ ७. ३. ७५॥
द्विदण्डि इत्येवमादयः समासा इजन्ताः साधवो भवन्ति । द्वौ दण्डावस्मिन् प्रहरणे द्विदण्डि प्रहरति । एवं द्विमुसलि, उभादन्ति उभयादन्ति, उभाबाहु, उभयाबाह । उभौ हस्तावस्मिन्पाने उभाहस्ति पिबति । एवमुभयाहस्ति । उभापाणि उभयापाणि, उभाञ्जलि, उभयाञ्जलि, उभौ कर्णावस्मिन श्रवणे उभाकणि श्रृणोति, एवमुभयाकणि । अन्ते वासोऽस्मिन्स्थानेऽन्तेवासि तिष्ठति । अन्तेवासी गुरोरिति ताच्छीलिकान्तोऽन्य एव शब्दः । संहितानि पुच्छान्यस्मिन् सरणे संहितपुच्छि धावन्ति । एकः पादोऽस्मिन् गमने एकपदि गच्छति, समानौ पादावस्मिन्सपदि गच्छति । आच्यपादौ आच्यपादे शेते । एवं प्रोपादे हस्तिनं वाहयति, निकुच्य को निकुच्यकणि धावति ।