________________
पाद. ३. सू. ६९-७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३२५ समासान्तः ॥ ७. ३. ६९ ॥
अधिकारोऽयमापादपरिसमाप्तेः, अतः परं ये प्रत्ययास्ते समासस्यान्ता अवयवा भवन्ति तद्गहणेन गृह्यन्ते । प्रयोजनं बहुव्रीह्यव्ययीभावद्विगुद्वन्द्वसंज्ञाः । सुजम्भे सुजम्भानौ स्त्रियौ । अत्रानो वहुस्रोहिग्रहणेन ग्रहणात् डाप्डीविकल्पः सिद्धः । उपधुरम् उपशरदम्, अत्रातोऽव्ययीभावग्रहणेन ग्रहणाद्विभक्तीनामम्भाव: । द्विधुरी, त्रिधुरी । अत्र द्विगुग्रहणेन ग्रहणान्छीः । वाग्दृषदिनी स्रक्वचिनी । अत्र द्वन्द्वग्रहणेन ग्रहणादिन् । ६९ ।।
न्या० स० समा० द्वंद्वसंज्ञा इति उपलक्षणं चेदं कर्मधारयादिसंज्ञा अपि भवति । न किमः क्षेपे ॥ ७. ३. ७० ॥
निन्दायां यः किंशब्दस्तस्मात् परे य ऋगादयो यानु पादाय समासान्तो विधास्यते तदन्ताद्वक्ष्यमाणः समासान्तो न भवति । किर्या न तथा गर्वी, कि राजा यो न रक्षति, स किसखा योऽभिद्रुह्यति, किं गौर्यो न चहति, का कुत्सिता धूरस्य किंधूः सकटम्, के कुत्सिते अक्षिणी अस्य किमक्षि ह्मणः ।
किम इति किम् ? कुराजः । दुःसखः । क्षेपे इति किम् ? केषां राजा किराजः, किंसखः, किंगवः ।७०। नञ्तत्पुरुषात् ।। ७. ३. ७१ ।।
नञ्तत्पुरुषाद्वक्ष्यमाणः समासान्तो न भवति । न ऋक अनृक्, अराजा, असखा, अपन्थाः। अपथमिति पथशब्दस्य यथा कुपथम् । तत्पुरुषादिति किम् ? न विद्यते धूरस्य अधुरं शकटम्, अपथोऽयमुद्देशः । राज्ञामभावोऽराज वर्तते ।७१।
न्या० स० नञ्०-कुपथमिति यद्यत्र पथिनशब्दः स्पात्तदा 'काक्षपथोः' ३-२-१३४ प्रवर्त्तत। पूजास्वतेः प्राक् टात् ॥७. ३. ७२ ।।
पूजायां यौ स्वती ताभ्यां परे य ऋगादयस्तदन्तात्समासात् 'बहुबोहे: काष्ठे ट:' (७-३-१२५) इति टप्रत्ययात्प्राक् यः समासान्तो वक्ष्यते स न भवति । शोभना धूः सुधूः, अतिधूः, सुराजा, अतिराजा, सुधूः शकटम्, अतिधूः शकटम्, सुसखा, अतिसखा, सुगौः, अतिगौः । पूजाग्रहणं किम् ? अतिक्रान्तो राजानमतिराजः, अतिसखः, अतिगवः । स्वतेरिति किम् ? परमधुरा,