________________
३२४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. ६७-६९ ] पशु, रक्षस्, असुर, वलिक, वयस्, (वचस्) वसु मरुत्, सत्वन्, सत्वन्तु दशाह पिशाच अशनि, कार्षापण इति पर्वादिः । ६६ ।
न्या स० पर्वा०-लुबिति नियामेकत्वेऽपि लुप् भवतीत्यर्थः । दामन्यादेरीयः ॥ ७. ३. ६७ ।।
दामन्यादिभ्यः शस्त्रजीविसंघेभ्यः स्वार्थे ईयः प्रत्ययो भवति स च द्रिः । दमनस्यापत्यं बहवः कुमारास्ते शस्त्रजीविसंघः, दामनीयः, दामनीयौ, दामनयः, औलपीयः, औलपीयौ, औलपयः ।
दामनि, औलपि, औपलि, वैजवापि, औदकि, आच्युतन्ति, काकन्दि काकन्दकि, ककुन्दि, ककुन्दकि, शाक्रन्तपि, (शत्रुन्तपि) सार्वसे नि, बिन्दु. तुलभा, मौजायन, औदमे घि, औपबिन्दि सावित्रीपुत्र, कौण्ठोपरथ, कौण्डोपरथ, कौण्ठारथ, दाण्डकि, क्रौष्टकि, जालमानि, जारमाणि, ब्रह्मगुप्त, ब्राह्मगुप्त, जानकि इति दामन्यादिः । ६७ ।। श्रुमच्छमीवच्छिखावच्छालावदर्णावद्धिदभृदभिजितो गोत्रेऽणो
यञ् ॥ ७. ३.६८॥ शस्त्रजीविसंघादिति निवृत्तम्, श्रमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजिदित्येतेभ्यो गोत्रे योऽण् तदन्तेभ्यः स्वार्थे यञ् प्रत्ययो भवति स च द्रिः। भ्रमतोऽपत्यमण् तदन्ताद्यञ् । श्रीमत्यः, श्रीमत्यौ, श्रीमताः । श्रीमच्छब्दादपि के चिदिच्छन्ति । श्रमत्यः, श्रमत्यौ, श्रमताः, शामीवत्यः, शामीवत्यौ, शामीवताः, शैखावत्यः, शैखावत्यौ, शेखावताः, शालावत्यः, शालावत्यो, शालाबताः, और्णावत्यः और्णावत्यौः, और्णावताः, वैदभत्यः, वैदभृत्यौ, वैदभता:, आभिजित्यः, आभिजित्यौ, आभिजिताः । गोत्रग्रहणं किम् ? श्रुमत इदं श्रीमतम्, आभिजितो मुहूर्त: । आभिजितः स्थालीपाकः, अपत्यप्रत्ययान्तात्स्वाथिकोऽपत्य एव वर्तते इति तदाश्रयः प्रत्ययो भवति । श्रीमत्यस्यापत्यं युवा श्रीमत्यायनः, आभिजित्यायनः । अत्र 'यजिञः' (६-१-६४) इत्यायनण् । श्रीमत्यस्यायं श्रीमतकः, आभिजितकः, अत्र 'गोत्राददण्ड '-(६-३-१६८) इत्यादिनाऽकञ् । श्रीमतानां समूहः श्रीमतकम् , आभिजितकम् । अत्र गोत्रोक्ष-(६-२-१२) इत्यादिनाऽकञ् । श्रीमत्यस्य संघादि भौमतम् आभिजितम् । अत्र संघघोषाङ्कलक्षणेऽञ्यजिञः' (६-३-१७१) इत्यण् । ६८।