________________
[ पाद. ३. सू. ६४-६६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३२३ काम्बव्या। व्यटि तु डीः स्यात् । ब्राह्मणप्रतिषेधे ब्राह्मणविशेषप्रतिषेधः । न हि ब्राह्मणशब्दवाच्यो वाहीकेषु शस्त्रजीविसंघोऽस्ति । राजन्ये तु स्वरूपस्य विशेषस्य च प्रतिषेधः । तदर्थमेव बहुवचनम् । शस्त्रजीविसंघादित्येव । मल्लः, शयण्डः, सम्राट्, वागुरः ।६३। वृकाटेण्यण् ॥७. ३. ६४॥
वकशब्दाच्छस्त्रजीविसंघवाचिनः स्वार्थे टेण्यण् प्रत्ययो भवति स च द्रिः । वार्केण्यः, वाग्यो, वृकाः । टकारो यर्थः । वार्केणी स्त्री, शस्त्रजीविसंघादित्येव । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । वाहीकत्वे नित्यमवाहीकत्वे तु विकल्पेन ज्यटि प्राप्ते वचनम् । एवमुत्तरसूत्रत्रयमपि ।६४।
यौधेयादेत् ।। ७. ३. ६५॥
. यौधेयादिभ्यः शस्त्रजीविसंघवाचिभ्योऽञ् प्रत्ययो भवति स च द्रिः । युधाया अपत्यं बहवः कुमारास्ते शस्त्रजीविसंधः यौधेयः, यौधेयौ, यौधेयाः, एवं शौभ्रेयः, शौक्रेयः घायः, धार्तेयः, ज्यावनेयः । अञ्वचनं 'संघघोषाङ्क. लक्षणेञ्यजिनः' (६-३-१७१) इत्यणर्थम्, तेन यौधेयस्य संघादियॊधेय इति भवति । ननु यौधेयादयः संघवचनाः कथं गोत्रं भवन्ति ? उच्यते, भर्गाद्यन्तर्गणो यौधेयादिस्तत्र येऽपत्यप्रत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् । अपत्यं हि गोत्रम्, अपत्यप्रत्ययान्ताच्च स्वाथिकोऽप्यपत्यग्रहणेन गृह्यते । अत्र चेदमेव अञ्वचनं लिङ्गम् ।६५।
न्या० स० यौधे०-अनुवचनमिति अथ यौधेयादिभ्योऽअवचनं किमर्थम् ? यौधेयादिषु ये तावदेयणन्तास्तेष्वञ् भावाभावयोरविशेषः, यतः तदेव हि रूपं स एव चार्थः प्रत्ययस्य स्वार्थिकत्वात् , त्रिगर्तभरतोशीनरेषु तु रूपभेदाऽस्ति तान् पश्वर्वादौ प्रक्षिप्य तेभ्योऽण विधेयो न हि त्रैगर्तः त्रैगौं त्रिगर्ता इत्यादावणयोर्विशेषोऽस्ति, अथ यौधेयादिभ्यः शस्त्रजीविसंघवाचिभ्यो वाहीकत्वावाहीकत्वाभ्यां नित्यो विकल्पितो वा ज्यट प्राप्नोतीत्यञ् विधेयस्तर्हि तानपि पर्वादिषु प्रक्षिप्य तेभ्योऽप्यण विधेय इत्याशङ्का । पोदेरण ।। ७. ३.६६ ॥
पशु इत्येवमादिभ्यः शस्त्रजीविसंघवाचिभ्यः स्वार्थेऽण् प्रत्ययो भवति स च द्रिः । पर्शोरपत्यं बहवो माणवका पर्शवः। द्विस्वरत्वादण् लुप् । ते शस्त्रजीविसंघः, पार्शवः, पार्शवी, पर्शवः, राक्षसः, राक्षसौ, रक्षांसि । स्त्रियां तु 'द्रेरञणोऽप्राच्यभर्गादेः' (६-१-१२३) इति लुप् । पशुः। अणो लुपि 'उतोऽप्राणिनश्च-' (२-४-७३) इत्यादिनो।