________________
३२२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. ३ सू० ६१-६२-६३ ] मुख्य:' ( ७-१-१९० ) इति विहितकप्प्रत्ययान्तं भवति । लोहध्वजाः 'पूगा:, लोहध्वज्यः, लोहध्वज्यौ, लोहध्वजाः, शैब्यः, शैब्यो, शिबयः, वातक्यः, वातक्यौ, वातकाः । दित्वात् बहुष्वस्त्रियां लुप् । अमुख्यकादिति किम् ? देवदत्तो मुख्योऽस्य देवदत्तकः, इन्द्राग्नि लुप्तकः पूगः । ६० ।
वातादस्त्रियाम् ।। ७. ३. ६१ ।।
नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा व्राताः । व्रातवाचिनोऽस्त्रियां वर्तमानात् स्वार्थे ञ्यः प्रत्ययो भवति स च द्रिसंज्ञः । कापोतपाक्यः, कापोतपाक्यो, कपोतपाकाः, वैहिमत्यः, वैहिमत्यौ, व्रीहिमताः । अखियामिति किम् ? कपोतपाका, व्रीहिमता स्त्री । ६१ । शस्त्रजीविसंघाञ्ञ्यड् वा ।। ७. ३. ६२ ।।
शस्त्रजीविनां यः सघस्तद्वाचिनः स्वार्थे ञ्यट् प्रत्ययो भवति स च द्विसंज्ञः । शबराः शत्रजीविसंघः । शाबर्यः, शाबय, शबराः, पौलिन्द्यः, पौलिन्द्यौ, पुलिन्दाः । कुन्तेरपत्यं बहवो माणवकाः कुन्तयः ते शस्त्र जीविसंघः कौन्त्यः कौन्त्यो, कुन्तयः । पक्षे शबरः । पुलिन्दः । शस्त्रजीविग्रहणं किम् ? मल्लाः संघः, मल्लः, मल्लो, मल्लाः, शयण्डः, शयण्डौ, शयण्डा: । संघादिति किम् ? सम्राट्, वागुरः, वागुरौ, वागुराः । नैते श्रेणिबद्धा इति न संघः । टकारो ङयर्थः । शाबरी, पौलिन्दी, कौन्ती ॥६२॥
न्या० स० शस्त्र० कुन्तय इति एततसूत्रायातस्यापि यटो ' बहुब्वस्त्रियाम् ' ६-१-१२४ इति लुपू, यण्ड इति शयण्डा योद्धृविशेषा येषां लोके चउकडिया इति प्रसिद्धिः । कौन्तीति कुन्तेरपत्यं बहवो माणवकास्ते शस्त्रजीविसंघः स्त्रोत्वविशिष्टो विवक्षितः, 'दुनादि ६-१-११८ इति ञ्यः, 'कुन्त्यवन्तेः स्त्रियाम् ' ६-१-१२१ इति लुप्, 'नुर्जाते:' २-४-७२ ङीः ततः ' शस्त्रजीविसंघाञ्यट् ' ७-३ - ६२ वा 'अवर्णेऽवर्णस्य ' ७-४-६८ 'अणनेये '२-४-२० इति ङी, 'व्यज्जनात्तद्धितस्य २-४-८८ इति यलुप् ।
वाहीकेष्वब्राह्मणराजन्येभ्यः ॥ ७. ३. ६३ ॥
वाहीकेषु यः शस्त्रजीविसंघो ब्राह्मणराजन्यवजितस्तद्वाचिनः स्वार्थे ञ्यट् प्रत्ययो नित्यं भवति स च द्रिसंज्ञः । कुण्डीविशाः शस्त्रजीविसंघः, कौण्डीविश्यः, कौण्डीविश्यौ, कुण्डीविशाः क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः, मालव्यः, मालव्यौ, मालवाः । वाहीकेष्विति किम् ? शबराः शस्त्रजीविसंघः । शबरः, शबरौ, पुलिन्दः, पुलिन्दौ । अब्राह्मण राजन्येभ्य इति किम् ? गौपालि:, गौपाली, शालंङ्कायनः, शालङ्कायनौ, राजन्यः, राजन्यौ, काम्बव्यः, काम्बव्यो । स्त्रियां राजन्या