________________
[ पाद. ३. सू. ५६-६० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३२१ क्तात्तमबादेश्वानत्यन्ते ॥ ७. ३. ५६ ।।
क्तान्तात्केवलांत्तमबाद्यन्ताच्चानत्यन्तेऽर्थे वर्तमानात् कप् प्रत्ययो भवति । क्रियायाः स्वेनाश्रयेण साकल्येनानभिसंबन्धोऽनत्यन्तता। अनत्यन्त भिन्न भिन्नकम्, अनत्यन्तं छिन्नं छिन्नकम्, अनत्यन्तं भिन्ना भिन्निका घटी, छिन्निका रज्जुः, तमबाद्यन्तात् तात्, अनत्यन्तं भिन्नतमं भिन्नतमकम्, एवं भिन्नत रकम् भिन्नकल्पम्, भिन्न कल्पकम् छिन्नतमकम्, छिन्नतरकम्, छिन्नकल्पम्, तमबाधन्तेषु क्तान्तता नास्तीति तमबादिग्रहणम् । असमासस्तमबादेरित्यत्रापि क्तादित्यस्य सबन्धार्थः, तेनेह न भवति । अनत्यन्तं शुक्लतमम् ।५६।
न सामिवचने ॥ ७. ३. ५७ ।। ___ सामि अर्धः, सामिवचने उपपदे अनत्यन्तेऽर्थे वर्तमानात् क्तान्तात्केवलात्तमबाद्यन्ताच्च कप् प्रत्ययो न भवति । सामि अनत्यन्तं भिन्नम्, एवं कृतं भुक्तं पीतम् । भिन्नतमम्, भिन्नतरम् । वचनग्रहणं पर्यायार्थम् । अर्धमनत्यन्तं भिन्नम् । नेममनत्यन्तं भिन्नम् । एवं शकलं खण्डमित्यादि । अन्ये तु समास एवोदाहरन्ति । सामि कृतम अर्धकृतमिति । ननु साम्यादिभिरेवानत्यन्तताया अभिहितत्वादुक्तार्थत्वेन कप् न प्राप्नोतीति व्यर्थः प्रतिषेधः । उच्यते साम्यादिभिः समुदायविषयक्रियाया एवानत्यन्तता प्रतीयते न स्वविषये । तत्रानत्यन्तविवक्षायां कप् प्राप्नोतोति प्रतिषेधवचनम् ।५७। नित्यं अत्रिनोऽण् ॥ ७. ३. ५८॥
अजिन् इत्येतत्प्रत्ययान्तात्स्वार्थे नित्यमण् प्रत्ययो भवति । नित्यग्रहणामहाविभाषा निवृत्ता। व्यावक्रोशी, व्यावलेखी, व्यावहासी वर्तते । निन्, सांकोटिनम्, सांराविणम्, सामाजिनम् ।५८। विसारिणो मत्स्ये ॥ ७. ३. ५९ ॥
विसारिन शब्दान्मत्स्ये वर्तमानात्स्वार्थेऽण् प्रत्ययो भवति । विसरतीति विसारी, ग्रहादित्वाणिन् । मत्स्यश्चेत् वैसारिणः। मत्स्य इति किम् ? विसारी देवदत्तः ।५९। पूगादमुख्यकाञ्यो द्रिः ॥ ७. ३. ६०॥
नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः । पूगवाचिनो नाम्नः स्वार्थे ज्यः प्रत्ययो भवति सच द्रिसंज्ञः न चेत्पूगवाचि नाम 'सोऽस्य