________________
३२० ] बृहद्धृत्ति-लघुन्याससवलिते [पाद. ३ स्० ५४-५५ ] डतरः प्रत्ययो भवति । यतरो भक्तोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु । कतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी का, अन्यतरो भक्तोः कठः पर्गन्ता देवदत्तो दण्डी का । महावाधिकारात्प्रत्ययो ना भवत्यपि । यो भक्तोः पटुः स आगच्छतु । को श्वतोः पटुः, अन्यो भवतोः फ्टुः, द्वयोरित्येव ? योऽस्मिन् ग्राम प्रधानं स गच्छतु । निर्धार्य इत्येव ? कोऽनयोमियोः स्वामी स आगच्छतु । ५३ ।। बहनां प्रश्ने डतमश्च वा ॥ ७. ३. ५४ ।।
यद्, तद्, किम्, अन्य इत्येतेभ्यो बहूनां मध्ये निर्धार्येऽर्थे वर्तमानेभ्यः प्रश्नविषये डतमः प्रत्ययो वा भवति चकाराड्डतरश्च । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु, कतमः कतरो वा भवतां कठः, प्रमाणान्तरात् प्रतिपत्तो बहूनामप्रयोगेऽपि भवति । यथा बहुष्वासीनेषु कश्चित्कंचित्यच्छति कतमो देवदत्तः कतरो देवदत्तः । अन्यतमोज्यतरो वा भवतां कठः। शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव मिरौ भवतः । वृद्धस्तु व्याधितो वा राजा मातृवन्धकुल्यगुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । वावचनमगर्थम् । यको भवतां कठः सक आगच्छतु, अन्यक एषां कालापः। किमस्तु साकः कादेश उक्तः । महावाधिकारात् प्रत्ययो न भवत्यपि । यो भवतां कठः स आगच्छतु । बहूनामिति किम् ? योऽस्मिन् ग्रामे कठः स आगच्छतु । प्रश्न इति किम ? क्षेपे माभूत् । को भवतां कठः कुत्सित इत्यर्थः । प्रश्नग्रहणं किमो विशेषणं नान्यस्यासंभवात् । अन्ये स्वाहुः यत्तत्किभ्यो जातादेव उतमः; डतरस्तु बहूनां निर्धायें किम एव न यत्तद्भ्याम्, सच जातादेव, अन्यशब्दादपि बहुविषये डतम एव न तु इतरः, डतरडतमौ च निर्धायें अन्यशब्दान्नित्यावेव नाक, नापि केवलस्य प्रयोगः, एके त्वविशेषेणेत्यत्राभिधानमनुसतव्यम् ।५४॥ वैकात् ॥७. ३. ५५ ॥
एकशब्दात् बहूनामेकस्मिन् निर्धार्येऽर्थे वर्तमानात डतमः प्रत्ययो वा भवति । एकतमो भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा। वावचनादक, एककः । महावाधिकारान्न भवत्यपि । एको भवतां कठः । पृथग्योगो डतरनिवृत्त्यर्थः ॥५५॥