________________
पाद. ३. सू. ४९-५३ ] श्री सिद्धहेमचन्द्र शब्दानुशासने सप्तमाऽध्यायः ३१९
कुत्वा डुपः ।। ७. ३. ४९ ।।
कुतूशब्दाद्धस्वेऽर्थे वर्तमानात्स्वार्थे डुपः प्रत्ययो भवति । ह्रस्वा कुतः कुतुप:, कुतुरिति चर्ममयं तैलाद्यावपनमुच्यते । ४९ ५ कासूगाणीभ्यां तर ।। ७. ३. ५० ।।
कासूगोणी इत्येताभ्यां ह्रस्वेऽर्थे वर्तमानाभ्यां तर प्रत्ययो भवति । स्वा कासू: कासूतरी, गोणीतरी । पुंलिङ्गमपि दृश्यते इत्येके । कासूतरः, गोणीतरः, कासूः शक्तिर्नामायुधम् । गोणी धान्यावषनम् । टकारो ङयर्थः । ५० वत्सोक्षा वर्षमादुप्रासे पित् ॥ ७३.५९ ॥
वत्स, उक्षन्, अश्व, ऋषभ इत्येतेभ्यः शब्दप्रवृत्तिनिमित्तस्य स्वार्थस्य ह्रासे गम्यमाने तर प्रत्ययो भवति स च पित् ।
ह्रसितो वत्सः वत्सतरः । क्त्सः प्रथमवयस्को गौः तस्य ह्रासो द्वितीयवयःप्राप्तिः, ह्रसित उक्षा उक्षतरः, उक्षा द्वितीयवमास्तरुणस्तस्य ह्रासस्तृतीयवयः प्राप्तिः । ह्रसितोऽश्वोऽश्वतरः । अश्वेनाश्वायां जातोऽश्वस्तस्य ह्रासो गर्दभ पितृकता, आशुगमनाद्वाश्वस्तस्य हासो गमने मन्दता, सर्वथाश्वतरशब्दो जातिशब्दः, हसित ऋषभः ऋषभतरः, ऋषभोऽनड्वान् बलीयान् तस्य हासो भारवहने मन्दशक्तिता, प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य हासे भवति । इह माभूत् कृशो वस्सो वत्सतर इति । पिस्करणं पु ंवद्भावार्थम् । हूसिता वत्सा वत्सतरी, हूसिताश्वा अश्वतरी । ५१ ।
वैकाद् द्वयोर्निर्धार्येतरः ।। ७. ३. ५२ ।।
समुदायादेकदेशो जातिगुणक्रिया संज्ञा द्रव्यैनिष्कृष्य बुद्ध्या पृथक्क्रियमाणो निर्धार्यः । एकशब्दात् द्वयोर्मध्ये निर्धार्येऽर्थे वर्तमानात् डतरः प्रत्ययो वा भवति । एकतरो भवत्तोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । चावचनम् अगर्थम् । एकको भवतोः कठः पटुर्वा, महावाधिकारान्न भवत्यपि । एको भवतोः पटुः । द्वयोरिति किम् ? एकोऽस्मिन् ग्रामे प्रधानम् । निर्धा इति किम् ? एकोऽनयोर्ग्रामयोः स्वामी । ५२ ।
न्या॰ स॰ वैकाद्॰ अगर्थंमिति महावाधिकारेणैव सिद्धे किमर्थ वावचनमित्याशङ्का ।
यत्तत्किमन्यात् ।। ७. ३. ५३ ॥
यद्, तद्, किम्, अन्य इत्येतेभ्यो द्वयोरेकस्मिन् निर्धार्येऽर्थे वर्तमानेभ्यो