________________
[पाद ३. सू. ८३-८७] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३२९ वचनम् । निर्लोमा पुरुषः । सामलोम्न इति किम् ? प्रतिकर्म । ८२ ।
न्या० स० प्रत्य०-विलोमेनेति तु पृषोदरादित्वात् लोम्न ऋद्ध्यभावो वा विलोमं 'नपुंसकाद् वा' ७-३-८९ इति समासान्ते तद्योगात् । ब्रह्महस्तिराजपल्यादर्चसः ॥ ७. ३. ८३॥
ब्रह्मन्, हस्तिन्, राजन्, पल्य इत्येतेभ्यः परो यो वर्चस्शब्दस्तदन्तासमासादत्समासान्तो भवति । वर्चस्तेजो बलं वा, ब्रह्मणो वर्चः ब्रह्मवर्चसम्, एवं हस्तिवर्चसम् । राजवर्चसम् । पल्यवर्चसम् । पल्यं कटकृतं पवालवर्तिकृतं वा धान्यभाजनम् । हस्तिविधा वा। ब्रह्मादिभ्य इति किम् ? नृपाः सोमार्कवर्चसः । कथं त्विषिमान् राजवर्चस्वीति । समासान्तविधेरनित्यत्वात् । एतच्च 'ऋक्यूःपथ्यपोऽत् '-(७-३-७६) इति निर्देशात्सिद्धम् ।८३। प्रतेरुरसः सप्तम्याः ॥ ७. ३. ८४ ॥
प्रतिशब्दात्परो य उरसशब्द: सप्तम्यन्तस्तदन्तात्समासादत्समासान्तो भवति । उरसि वर्तते प्रत्युरसम्, विभत्यर्थेऽव्ययीभावः । उरसि प्रतिष्ठितं प्रत्युरसम्, 'प्रात्यव'-(३-१-४७) इत्यादिना तत्पुरुषः। सप्तम्या इति किम् ? प्रतिगतसुरः उरः प्रति वा प्रत्युरः ।८४। अक्ष्णोऽप्राण्यङ्गे ॥ ७. ३. ८५॥
अक्षिशब्दान्तात्समासादत्समासान्तो भवति अप्राण्यङ्ग न चेत् सोऽक्षिशब्दः प्राण्यङ्गे वर्तते । लवणस्याक्षि लवणमक्षीवेति वा लवणाक्षम् । पुष्कराक्षम्, गवाक्षः, रुद्राक्षम्, महिषाक्षो गुग्गुल: । कचराक्षमश्वानां मुखप्रच्छादनं बहुच्छिद्रकम् । अप्राण्यङ्ग इति किम् ? अजाक्षि, उपाक्षि, वामाक्षि ।८५।
संकटाभ्याम् ॥ ७. ३.. ८६ ॥ ____संकट इत्येतत्पूर्वादक्षिशब्दादत्समासान्तो भवति । संगतमक्षणा समीपमक्ष्णो वा समक्षम् । कटस्याक्षि कटाक्षः । प्राण्यङ्गार्थं वचनम् ।८६। प्रतिपरोऽनोख्ययीभावात् ॥ ७. ३. ८७ ॥
प्रति परस् अनु इत्येतत्पूर्वो योऽक्षिशब्दस्तदन्तादव्ययीभावसमासादत्समासान्तो भवति । अक्षिणी प्रति प्रत्यक्षम्, परसमानार्थः परस्शब्दोऽव्ययम्, अक्ष्णोः परं परोक्षम्, अत्ययेऽव्ययीभावः। अक्ष्णः समीपमन्वक्षम् । कथं प्रत्यक्षोऽर्थः परोक्षः काल इत्यादेरव्ययीभावस्य सत्ववचनता । अभ्रादेराकृति