________________
२४]
बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ४९ ] दादिषु पाठाद, इहायनम् आश्वः, आश्वायनः । शंखशब्दाद्विदादिष्व गर्गादिष यञ् कुञ्जादिषु बायन्यः इहायनञ् । शाङ्खः शान्यः, शांखायन्यः, शांखायनः । जनशब्दानडादिषवायनण् इहायनञ् । तत्र यूनि प्रत्यये विधेये विशेषः, जानायनिः जानायनो युवा । उत्सग्रीष्मयोरुत्सादिषु पाठोऽनन्तरार्थोऽनपत्यार्थश्च इह तु वृद्धेऽयमेव यथा स्यादित्येवमर्थः। औत्सायनः, ग्रेष्मायणः । अर्जुनशब्दस्य वाह्वादिषु पाठोऽनन्तरार्थः। वृद्धे त्वयमेव-आर्जुनायनः, वैल्येति विलिशब्दो ज्यान्तस्ततो यूनि प्रत्ययः, वैल्यायनो युवा ॥४९॥
न्या० स० अश्वा-गणः 'लटिखटि' ५०५ ( उणादि) इति अश्वः, 'शमिमनी' ८४ (उणादि) इति शखः । अचि जनः। 'ऋजिरिषि' ५६७ (उणादि) इति किति से उत्सः । प्रसते ‘रुक्मग्रीष्म' ३४६ (उणादि) इति प्रीष्मः । याज' २८८ (उणादि) इत्युने अर्जुनः ।
विलेरपत्यं 'दुनादि' ६-१-११८ इति वैल्यः । 'विन्देनलुक च' ६ (उणादि) इति विदः। 'नाम्युपान्त्य' ५-१-६४ इति के कुट, पुट, स्फुट । 'विपिन' २८४ इति रोहिणः। 'खर्जमार्जने च' 'कुमुल' ४८७ (उणादि) इति खर्जुलः । 'मामसि' ४२७ (उणादि) इति खर्जुरः, लत्वे खर्जुलः ।
पिञ्जयति 'मोमसि' ४२७ (उणादि) इति पितरः । भन्दते सुखी भवति 'स्थण्डिल' ६-२-१३९ इति भदिलः। भटति 'कल्यनि' ४८१ (उणादि) इति भटिलः । भण्डते 'भण्डेर्नलुक् च' ४८२ (उणादि) मडिल:, भण्डिलः ।
भटस्य तुल्यो भटकः, भण्डति 'पुतपित्त' २०४ ( उणादि ) इति भडितः । “भण्डनं भण्डः संजातोऽस्य भण्डितः । प्रादृते ‘पुतपित्त' २०४ (उणादि) इति प्रादृतः ।
उन्दै स्थादित्वात के उदः । जे क्विप् तान् अन्धयति क्षान्धः । 'प्रह' ५१४ (उणादि) इति प्रीवः । गमामुनत्ति राममुदकं यस्य वा रामोदः। अक्षी रामाणामुदक्षः रामोदक्षः । अन्धन गृणाति अन्धग्रीवः। अचि काशः। घनि काणः। ग्रहाद्भ्यः किति गोल करणे के आह्वः, कर्मधारये गोलाहः । सुष्टु अनिति स्वनः, अकीणां स्तावकानां स्वनः अर्कस्वनः । के शुनः। अचि धन, पत, पद । 'कृगो द्वे च' चक्रः । के कुलः । श्रवणं श्रवः, ततो मतुः, बहूनां मध्ये श्रववती श्रविष्ठा । ___पूल त्वष्४क्षत्तु' ८६५ (उणादि) पावितृः। 'ऋषिनाम्नाः करणे' ५-२-८६ पवित्रा । पविं वनं ददाति पविन्दाः । 'गोः' ७-२-५० इति मिन्प्रत्यये गोमिन् । अन्ये सुगमाः ।
सह नरवैर्वर्त्तते सनखः । सन्त्यचि सनः । खडणू णिचोऽनित्यत्वेऽचि खडः । जल धात्ये डलयोरैक्ये अचि जरः । अचि गदः । अईः। वीक्षः। विशाम्यति 'भापा' २९६ (उणादि) इति विशम्यः । णके दासकः । कम्मेधारये चुपदासकः । धन लब्धा धन्यः । ___ धर्मादनपेतो धर्म्यः। पुसि जायते स्म पुंसिजातः । शूद्रं कायात शूद्रकः । आतनोति 'कैरव' ५१९ (उणादि) इति आतवः । कर्मधारये उत्सातवः 'कितिकुडि' ५१८ (उणादि) इति कितवः। कित ज्ञाने 'प्रह' ५१४ इति किवः। खनूग 'प्रह' ५१४ इति । 'पम्पा'