________________
[पाद. १. सू. ४३] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
[ २१ रेभते अच् रेभः । अग्निमपि विशति अग्निवेशः । 'शमिमनि' ८४ ( उणादि) इति खे शंखः। 'दिव्यवि' १४२ ( उणादि) इति अवटः। 'तप्पणि' ५६९ इति नमसः । चमसः। धनं जयति धनंजयः । तृक्षति तृक्षः । विश्वस्मिन् वसूनि यस्य विश्वावसुः । जिंजइति ऋकारान्तं मन्यते तन्मते जरमाणः । 'पृषिरजि' २०८ ( उणादि) इति कनः कुरूणां कतः । चसौ वा । 'हृश्या' २१० ( उणादि) इति रोहितः, लत्वे लोहितः'
__'हनिया' ७३३ ( उणादि) इति बभ्रुः लत्वे वभ्लुः । मण्डते 'भृमृ' ७४० ( उणादि) इति मण्डुः । 'मस्जि' इति सुक् बाहुलकान्न-लोपाभावे मक्षु ।
'उखनरव' इति 'भृमृ' इति मखु ।
शंगति, केवयुनिपातः ‘कैशी' ७४९ ( उणादि) इति शकुः । कृलाभ्यां कित' ७८० (उणादि) लतुः। ‘रचिलङ्घि ७४० (उणादि) इति लिगुः । ‘गूहलुगुग्गुलु' ७२४ ( उणादि ) इति गृहलुः । जेतुमिच्छुः जिगीषुः । मन्यते इति मनु ‘कृसिकृमि' ७७३ (उणादि) इति सन्तुः, मनुश्चासौ तन्तुश्च मनुतन्तुः । 'निघृषि' ५११ ( उणादि) इति किति वे झुवः। कच्छते कच्छकः।
_ 'ऋजिरिषि' ५६७ (उणादि) इति ऋक्षः । रूक्षणं रूक्षः । तरून् क्षयति तरूक्षः, लत्वे तलक्षः । अवश्यं तण्डते तण्डी, वनेश्च वतण्डः । 'अम्भिकुण्ठि ६१४ (उणादि) इति कपिः । 'पृषिरञ्जि' २०८ ( उणादि) इति कित्यते कतः । प्रसे वामरथः ।
गोरिव कक्षो भक्ष्यः पार्यो वा अस्य गोकक्षः। अवश्यं कुण्डते कुण्डिनी। यज्ञे वल्कोऽस्य यज्ञवल्कः, प्रसे अभयः। जायते स्म जातः, चसे अभयजातः । विशेषेण रोहति 'हृश्या' २१० ( उणादि) इति विरोहितः । वृषान् गणयति वृषगणः रहो गणयति रहोगणः ।
'कल्यनि' ४८१ ( उणादि) इति शण्डिलः । 'मुदिगुरिभ्यां' ४०४ ( उणादि ) मुद्गरः लत्वे मुद्गलः। मुसं राति मुसरः तृपिवृपि' ४६८ ( उणादि) इति मुसलः।
परावृत्त्या शृणाति पराशरः। जतुवत् को यस्य जतूकर्णः। मन्द्रो गम्भीरः शब्दः सोऽस्याऽस्ति 'तदस्य' ७-१-१३८ इतीतः, मन्द्रं करोति वा ततः क्त मन्द्रित ___ अश्मवदुरथोऽस्य अश्मरथः। शर्करावत् अक्षिणी यस्य ‘सक्थ्यक्ष्णः' ७-३-१२६ शर्कराक्षः । पूतयो माषा यस्य पूतिमाषः । 'स्थाविडे' ४२९ ( उणादि ) स्थूरः । अरा अराकाराणि भक्ष्याणि गति 'भीणशलि' २१ ( उणादि) इति अरराका । ‘स्फुलिकसि' १०२ (उणादि) इति पिङ्गः, पिङ्गं लाति पिङ्गलः । ___गां लुनाति 'कुमुद' २४४ इति गोलुन्दः, गोलायामुनत्ति स्नाति वा, उलिः सौत्रः ओलति 'शम्बूक' ६१ ( उणादि) इति उलूकः । स्तभ्नाति 'जजल' १८ ( उणादि ) इति तितिम्भः। भिषिः सौत्रः के भिषः, 'भिषेभिषभिष्णौ च वा' भिषजः, भिष्णजः । पतौ साधुस्तल्लुनाति पत्यलः । वृहं लुनाति बृहल्लः । फलानि लुनाति पृषोदरादित्वात् पम्फलः । मधुबभ्रोब्राह्मणकौशिके ।। ६. १. ४३ ॥
मधुशब्दाद्वभ्रशब्दाच्च यथासंख्यं ब्राह्मणे कौशिके च वृद्धेऽपत्येथे य प्रत्ययो भवति । माधव्यो ब्राह्मणः, माधवोऽन्यः, बाभ्रव्य: कौशिकः, बाभ्र