________________
[ पाद. १. सू. ४८-४९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ २३
इत्येव ? कुञ्जस्यापत्यमनन्तरं कौजिः । कुञ्ज, बध्न, गण, भस्मन्, लोमन्, लौमायन्य । तदन्तादेव केचित् । औडुलोमायन्यः । शट, अयं गर्गादिष्वपि । शाक, शुण्डा, शुभा, विपाश्, अयं शिवादिष्वपि । स्कन्ध स्कम्भ शङ्ख, अयं गर्गादावश्वादौ विदादौ च । इति कुजादिः । अकारो त्रित्कार्यार्थः ।।४७।।
या० स० कुजा-यदाकुञ्जस्यापत्यं वृद्धं कौञ्जायन्यः तस्याप्यपत्यानि युवानः 'अत इञ्' ६-१-३१ 'बिदार्षात' ६-१-१४० इति तस्य लुपि एकत्वद्वित्वरूपनिमित्ताभावात् व्यायन्यनिवृत्तौ बहुत्वसद्भावात् 'स्त्रीबहुष्वायनञ्' ६-१-४८ इत्यनेनायनञ् भवति तदा कौञ्जायना इति रूपं, यदा तु कुञ्जस्यापत्यानि वृद्धानि कौञ्जायनास्तेषामपत्यं युवा इञो 'बिदार्षात्' ६-१-१४० इति लुपि आयननिमित्तबहुत्वाभावात् तन्निवृत्तौ जायन्यनिमित्तैकत्व भावात् जायन्ये सति कोजायन्य इत्येव रूपम् । स्त्रीबहुष्वायनञ् ॥ ६. १. ४८॥
कुजादिभ्यो ङसन्तेभ्यो बहुत्वविशिष्ठे वृद्ध स्त्रियां वाबहुत्वेऽपि आयन प्रत्ययो भवति । कुञास्यापत्यं स्त्री कोजायनी, ब्राध्नायनी, कुञ्जस्यापत्यानि कौञ्जायनाः, बाध्नायनाः। बकरो बित्कार्यार्थः ॥४८॥
अश्वादेः ॥ ६. १. ४९ ॥
अश्वादिभ्यो वृद्धेऽपत्ये आयनञ् प्रत्ययो भवति । अश्वस्यापत्यं वृद्धमाश्वायनः, शांखायनः। वृद्ध इत्येव ? आश्विः । गोत्र इत्येव ? अश्वो नाम कश्चित् तस्यापत्यं वृद्धमाश्विः। अश्व, शंख, जन, उत्स, ग्रीष्म, अर्जुन, वैल्य, अश्मन्, विद, कुट, पुट, स्फुट, रोहिण, खर्जुल, खजूर, खजूल, पिञ्जूर, भदिल, भटिल, भडिल, भण्डिल, भटक, भडित, भण्डित, प्रात, राम, उद, क्षान्ध, ग्रीव, रामोद, रामोदक्ष, अन्धग्रीव, काश, काण, गोल आह्व, गोलाह्व, अर्क, स्वन, अर्कस्वन, शुन, वन, पत, पद, चक्र, कुल, ग्रीवा, श्रविष्ठा, पावितृ, पवित्रा, (पावित्र) पविन्दा, गोमिन्, श्याम, धूम, धूम्र, वस्त्र, वाग्मिन्, विश्वानर, विश्वतर, वत, सनख, सन, खड, जड, गद, जण्ड, अर्ह, (अर्थ) वीक्ष, विशम्प, विशाल, गिरि, चपल, गिरिचपल, चुप दासक, चुपदासक, धाय्या, धन्य, धर्म्य, पुंसि जात, शूद्रक, सुमनस्, दुर्मनस्, आतव, उत्सातव, कितव, किव, शिव, खिव, खिप, खदिर, आनडुह्य, आनडुह्यायन इति यबन्तादायनणापि सिध्यति प्राग्जितीयस्वरादौ तु 'यूनि लुप्' (६-१-१३७) इति नित्यलुबर्थमस्योपादानम् इत्यश्वादिः । अत्र योऽश्वादिवृद्धकाण्डेऽन्यत्रापि पठयते तस्य सोऽपि भवति । अश्वशब्दाद्वि