________________
बृहद्वृत्ति-लघुन्याससंवलिते प. १ सू० ३३-३४ इति बाह्वादयः । बहुवचनमाकृतिगणार्थम्, तेन सख्युरपत्यं साखिः । संवेशिनः सांवेशिः, उदङ्कस्य औङ्कि, एवमौद्दालकिः, वाल्मीकिः, आरुणिः इत्यादि सिद्धम् भवति । शिवादेश्च प्राम्येऽकारान्ता बिदादयप्तेभ्य ऋष्यणं बाधित्वा उक्तादर्थादन्यत्रानेनैवेज । बिदादेवृद्धेऽज वक्ष्यते, बिदस्यापत्यमनन्तरं दैदिः, औविः, गर्गादेर्यम् गागिः, वासिः, कुजादे य यः, कौञ्जिः, ब्रानिः, अश्वादेरायन, आश्वि:, आर्किः, नडादिभ्य आयनम् नाडिः, मोजिः । अनकारान्तेभ्यस्त्वणेव औपमन्यकः, जामदम्नः, भास्मः सौमनसः, लैंगवः, शारद्वतः । इतः प्रभृति गोत्र इत्यधिकारात् गोत्रे संभवति ततोऽन्यत्र प्रतिषेध ।। ३२॥
न्या० स० बाह्म-खरनादिभिति गणपाठअत् 'पूर्वपदस्था' २-३-६४ इति न णत्वम् ।
उक्तार्थादन्यत्रेति कोऽर्थः वृद्धार्थादन्यत्राकारान्तानां बिदादीनां 'ऋषिवृष्ण्यन्धक' ६-१-६१ इत्यनेनाण् स्यात् , सोऽनेन बाध्यते ।
___ भास्म इति भस्मनोऽपत्यं ऋष्यणि 'अणि' इति प्रतिषेधे प्राप्ते 'अवर्मणो मनोऽपत्ये ७-४-४९ इत्यनेनान्त्यस्वरादिलोपः । ___ततोऽन्यत्रेति अयमर्थः, यत्र गोत्रमगोत्रं च संभवति तत्र ततो गोत्रादन्यत्रे प्रतिषेधः, यत्र गोत्रं न संभवत्येव तत्रागोत्रेऽपीञ् । वमणोऽचक्रात् ॥ ६.१.३३॥
चक्रशब्दवजितात्परो यो वर्मन् शब्दस्तदन्तादरत्येऽर्थे इज् प्रत्ययो भवति । इन्द्रवर्मणोऽपत्यमैन्द्रवमिः, अचक्रादिति किम् ? चाक्रवर्मणः ॥३३॥
न्या० स० वर्म- चाक्रवर्मण इति चक्रं वर्म यस्य चक्रवर्मा अथवा चक्रमेनं वृषीष्ट “तिक्कृतौ नाम्नि' ५-१-७१ मन , 'नोपदस्य' ७-४-६१ इत्यनेनान्तलोपे प्राप्ते 'अणि' ७-४-५२ इति प्रतिषेधः, 'अवर्मणो मनो' ७-४-५९ इत्यनेन भविष्यतीसि च न वाच्यं, तत्र वर्मन्वर्जनात् ।
अजादिभ्यो धेनोः ॥६. १.३४॥ ___ अजादिभ्यः परो यो धेनुशन्दस्तदन्तादपत्येऽर्थे इञ् प्रत्ययो भवति । आजधेनविः, बाष्कधेनविः । अजादयः प्रयोगतोऽनुसर्तव्याः ॥३४॥
न्या० स० अजा-आजधेनविरिति अजा चासो धेनुश्चेति कार्य, 'पोटायुवति' ३-१-१११ इति समासः, न त्वजा धेनुर्यस्येति तदा 'स्वाङ्गान्डाः' ३-२-५६ इति पुंवन्निषेद्यः स्यात् । ब्राह्मणादा ॥ ६ । १ ३५॥
ब्राह्मणशब्दात्परो यो धेनुशब्दस्तदन्तादपत्येऽर्थे इञ् वा भवति । ब्राह्मणधेनविः ब्राह्मणधेनवः ॥ ३५ ॥ भूयःसंभ्रयोम्भोमितौजसः स्लुक च ॥ ६१ । ३६ ॥ भूयस्, संभूयस्, अम्भस्, अमितौजस् इत्येतेभ्योऽपत्येऽर्थे इञ् प्रत्ययो