________________
पाद, ३. सू. २४-२८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३११ तनकम भङ्गादिमयं कल्पादि च। सूत्र इति किम् ? तनवंशः। पुत्रात्
त्रिमे, कृत्रिमस्तक्षादिव्यापारनिष्पादितः । कृत्रिमः पुत्रः पुत्रकः । कृत्रिम इति किम् । औरसः पुत्रः । अणोनिपुणे, निपुणो निष्णातोऽणुः अणुकः । निपुण इति किम् । अणुर्वीहिः । बृहत्या आच्छादने, बृहतिका आच्छादनविशेषः । प्रत्ययमन्तरेणार्थानवगमात् नित्य एवायं विधिः। आच्छादन इति किम् ? बृहती छन्दः, बहती ओषधिः, शून्याद्रिक्त, रिक्तो धनप्रज्ञादिना, शून्य एब शून्यकः रिक्तश्चेत् । रिक्त इति किम् ? शुने हितं शून्यम् । अन्ये तु सूत्रादयोऽर्थाः प्रत्ययमन्तरेण न प्रतीयन्ते इति तद्विषये तन्वादिभ्यो नित्य एव प्रत्ययविधिरिति मन्यते, एवं पूर्वसूत्रेऽपि ।२३।
न्या० स० तनु०-नित्य एवायमिति आच्छादनरूपस्यार्थस्यानवगमात् । भागेऽष्टमाञः ॥ ७. ३. २४॥
अष्टमशब्दाद्भाऽगेंशे वर्तमानात्स्वार्थे बः प्रत्ययो वा भवति । अष्टम एवाष्टमो भागः। भाग इति किम् ? अष्टमो जिनः चन्द्रप्रभः ॥२४॥ षष्ठात् ॥ ७. ३. २५ ॥
षष्ठशब्दाद्भागे वर्तमामात्स्वार्थे ञः प्रत्ययो वा भवति । षष्ठ एब षाष्ठो भागः । भाग इति किम् ? षष्ठो जिनः पद्मप्रभः। योगविभाय उत्तरार्थः ।२५॥ माने कश्च ।। ७. ३. २६ ॥
मीयते येन तन्मानम् । तस्मिन् माने भागे वर्तमानात् षष्ठशब्दात्कश्चकाराञश्च प्रत्ययो वा भवतः। षष्ठ एव षष्ठकः, षाष्ठो भागः मानं चेत् । माम इति किम् ? षष्ठ एव षाष्ठो भागोन्यः ।२६। एकादाकिन् चासहाये ॥ ७. ३. २७ ॥
एकशब्दादसहायार्थवाचिन आकिन् प्रत्ययो भवति चकारात्कश्च । एक एव एकाकी एककः । असहाय इति किम् ? एके आचार्याः, एको द्वौ बहवः ।२७। - प्राग् नित्यात्कप् ॥ ७. ३. २८ ॥
नित्यशब्दसंकीर्तनात् प्राग्येऽर्थास्तेषु घोत्येषु का प्रत्ययोऽधिकृतो वैदि