________________
३१२
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद. ३ सू० २९-३१ तव्यः । कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः, गर्दभकः, पकारः पुंवद्भावार्थः । कुत्सिता दरद् दारदिका, प्राग्नित्यादित्यवध्यर्थम् । अन्यथापवादबाधितो नोत्तरत्रानुवर्तेत । परतोऽपि चानुवर्तते । २८०
6.
न्या० स० प्रागूनि ० - दारदिकेति दरदां राज्ञी पुरुमगध ६-१-११६ इत्यणू, 'द्रेश्त्रणो' ६-१-१२३ इति लुप्, ततोऽनेन कपि 'क्यमानि १ ३-२-५० इत्यनेन अलोप निवृत्तिरूपे पुंवद्भावे ' आत् २-४ -१८ इत्या 'अस्यायत्तत् ' २-४-१११ इत्वम्, यदा त्वपत्ये अण् तदा गोत्रं च चरणैः सहेति जातित्वे 'स्वाङ्गान् ङोर्जातिरच ' ३-२-५६ इति निषेधः स्यात् ।
,
त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ॥ ७ ३. २९ ॥
त्याद्यन्तस्य सर्वादोनां च स्वरेषु स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वोक् प्रत्ययो भवति, प्राग्नित्यात् कपोऽपवादः । कुत्सितमल्पमज्ञातं वा पचति पचतकि । पचतकः, पचन्तकि । सर्वादि, सर्वके, विश्वके, सर्व कस्मै, विश्वकस्मै, कत्पिता, तकत्पिता, त्वत्पिता, मकत्थिता, परमसर्वके, परमविश्वके । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् । स्वरेष्वन्त्यादिति किम् ? त्याद्यन्तात्सर्वादेव पूर्वं माभूत् । पूर्व इति किम् ? परो माभूत् । २९ ।
न्या० स॰ त्यादि०—यकत्पितेत्यादिषु बहुव्रीहिवर्ज समासः कार्यः, बहुव्रीहौ तु 'ऋन्नित्यदितः ' ७-३ - १७१ कच् स्यात् ।
युष्मदस्मदोऽसोभादिस्यादेः ।। ७. ३. ३० ॥
6
युष्मदस्मदित्येतयोः सकाराद्योकारादिभकारादिवर्जितस्याद्यन्तयोः स्वरेष्वन्त्यात्पूर्वोऽक् प्रत्ययो भवति । युष्मदस्मदोः स्वरेष्वन्त्यात्पूर्वस्यापवाद: । स्वयका, मका, त्वयकि, मथकि, युष्माककम्, अस्माककम्, परमत्वयका, परममयका, युष्मदस्मद इति किम् ? तकया, यकया, सर्वकेण, विश्वकेन, इमकेन, अमुकेन, इमकै:, अमुकैः, भवन्तौ भवकन्तः । केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वमकमिच्छन्ति । तन्मते, भवतका भवतके भवतक: भवतीत्यपि भवति । असोभादिस्यादेरिति किम् ? युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, युवकाभ्याम्, आवकाभ्याम्, युष्मकाभिः, अस्मकाभिः | ३०१ अव्ययस्य को दु च ॥ ७. ३. ३१ ॥
प्रानित्याद्यऽर्थास्तेषु द्योत्येषु अव्ययस्य स्वरेष्वन्यात्स्वरात्पूर्वमक् प्रत्ययो भवति तत्संनियोगे यत्ककारान्तमव्ययं तस्य दकारोऽन्तादेशो भवति,