________________
३१० ]
बृहवृत्ति लघुन्याससंलिते [पाद. ३ सू० १९-२३ ] शाटी, लोहितिका पटी, अनित्यवर्णे, लोहितकमक्षणो रूपं कोपेन, लोहितकमक्षि कोपेन, लोहिनिका लोहितिका कन्या कोपेन, वाधिकारान्न भवत्यपि। लोहिता लोहिनी वा कोपेन । नित्योऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरक्त पट इति रक्तग्रहणम् । अनित्यग्रहणं किम् । लोहित इन्द्रगोपकः । सत्येवाश्रयद्रव्येऽपयन्निहानित्य उच्यते । अन्यथा रक्तग्रहणस्यानर्थक्यात् । वर्णग्रहणं द्रव्य निवृत्यर्थम्, असति वर्णग्रहणे स्त्रीणामार्तवे द्रव्ये स्यात् । तद्धि सत्येवाश्रये खियां कदाचिन्न भवति लोहितशब्दवाच्यं च ।१८।।
न्या० स० रक्ता०-नित्योपीत्यादि-ननु रक्ते वस्तुनि अनित्य एव वर्णो भवति यथा हरिद्रादौ, तत्रानित्यवर्णे इत्येव प्रत्ययः सिध्यति किमर्थ रक्तग्रहणमित्याशङ्का ? सत्येवेति इन्द्रगोपकाभावे लोहितत्वनिवृत्तावपि नानित्यत्वमिति । कालात् ॥ ७. ३. १९ ॥
कालशब्दात्कज्जलादिना रक्ते अनित्यवर्णे चार्थे वर्तमानात्कः प्रत्ययो वा भवति ।
रक्त, काल एव कालकः पटः, अनित्यवणे, कालकं मुखं वैलक्ष्येण । वाधिकारान्न भवत्यपि । कालः पटः, कालं मुखम् ।१९। शीतोष्णादतौ ॥ ७. ३. २० ॥
शीतोष्णशब्दाभ्यामृतौ वर्तमानाभ्यां कः प्रत्ययो वा भवति । शीत एव शीतक ऋतुः, उष्णक ऋतुः। ऋताविति किम् ? शीतो वायुः, उष्णः स्पर्शः ।२०। लनवियातात्पशी ॥७. ३. २१ ॥
लनवियातशब्दाभ्यां पशो वर्तमानाम्यां स्वार्थे कः प्रत्ययो वा भवति । लून एव लूनकः, वियातकः पशुः । पशाविति किम् ? लनो यवः, वियातो बटुः । विहानशब्दादपोच्छन्त्येके । विहानकः पशुः, विहान एवान्यत्र ।२१॥ स्नातादेदसमाप्तौ ॥ ७. ३. २२ ॥
स्नातशब्दावेदसमाप्ती गम्यमानायां कः प्रत्ययो भवति । वेदं समाप्य स्नातः स्नातकः । वेदसमाप्ताविति किम् ? तीर्थे स्नातः ।२२।। तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते ।।७.३.२३॥
तनुपुत्राणुबृहतीशून्य इत्येतेभ्यो यथासंख्यं सूत्रकृत्रिमनिपुणाच्छादनरिक्त इत्येतेष्वर्थेषु वर्तमानेभ्यः स्वार्थे कः प्रत्ययो भवति । तनोः सूत्रे, तन सूत्र