________________
[पाद ३. सू. १५-१८] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३०९ अनत्यन्तं छिन्नं छिन्नकम् , अनत्यन्तं भिन्न भिन्नकम् , इदमेषां प्रकृष्ट छिन्नकम् , प्रकृष्टं भिन्नकम् , इदमनयोः प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम् , यदा तु प्रकर्षवतोऽनत्यन्तविशिष्टविवक्षा तदा तमबाद्यन्तात् 'क्तात्तमबादेश्चानत्यन्ते' (७-३-५६) इति कब् भवत्येव । छिन्नतमकम् , छिन्नतरकम् , भिन्नतमकम् , भिन्नतरकम् ॥१४॥ यावादिभ्यः कः ॥ ७. ३. १५॥
याव इत्येवमादिभ्यः स्वार्थे कः प्रत्ययो भवति । याव एव यावकः, मणिरेव मणिकः, अविरेव अविकः ।।
याच, मणि, अवि, अस्थि, लात्र, पात्र, पीत, स्तब्ध, ज्ञात, अज्ञात, पुण्य, नित्य, सत्वत् दशाह, वयस्, चन्द्र, जानु, भूत, भिक्षु इति यावादिराकृतिगणः । तेनाभिन्नत्तरकम् बहुतरकमित्यादि सिद्धम् ।१५। कुमारीक्रीडनेयसोः ॥ ७. ३. १६ ।।
कुमारीणां यानि क्रीडनानि तद्वाचिभ्य ईयसुप्रत्ययान्तेभ्यश्च स्वार्थे कः प्रत्ययो भवति । कन्दुरेव कन्दुकः, उत्कण्टकः, गिरिकः, समुद्गकः, दोलिका, भ्रमरकः, शङ्गकम् । ईयसु, श्रेयानेव श्रेयस्कः, ज्यायस्कः, भूयस्कः ।१६। ___न्या० स० कुमा०-दोलिकेति दोलैव ‘इच्चाउँसो नि' २-४-१०७ इति वा इत्वम् । ज्यायस्क इति द्वयोर्मध्ये प्रकृष्टो वृद्धः प्रशस्यो वा ईयसुः ‘वृद्धस्य च ज्यः' ७-४-३५ 'ज्यायान् ' ७-४-३६ इति ईकारस्य आकारः, ज्यायानेव 'प्रत्यये २-३-६ इति सूत्रेण सः। भूयस्क इति द्वयोर्मध्ये प्रकृष्टो बहुः ईयसि 'भूर्लक् चेवर्णस्य ' ७-४-४१ भूरादेश ईलोपश्च । लोहितान्मणौ ॥ ७. ३. १७ ॥
लोहितशब्दान्मणौ वर्तमानात स्वार्थे कः प्रत्ययो वा भवति । लोहित एव लोहितको मणिः, लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिन्येव लोहिनिका मणिः, लोहितैब लोहितिका मणिः, मणेविशेषणमेतदित्येके । नामधेयमित्यन्ये । वाधिकारान्न भवत्यपि। लोहितो मणिः। मणाविति किम् ? लोहिता गौः ।१७। रक्तानित्यवर्णयोः ।। ७. ३. १८॥
रक्त द्रव्यान्तरेण लाक्षादिना वर्णान्तरमापादितेऽनित्ये च वर्णे, वर्तमाना'ल्लोहितशब्दात्कः प्रत्ययो वा भवति ।
रक्त लोहित एव लोहितकः पटः, लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका