________________
३.८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. १२-१४ ] दिविशिष्टस्येषदसमाप्तिविवक्षा भवति तदा तमबादिभ्यः कल्पबादयः प्राप्नवन्त्यतस्ते मा भूवन् । यदा त्वीषदसमाप्तस्य प्रकर्षादयो विवक्ष्यन्ते तदा कल्पबाधन्तेभ्यस्तमबादयो भवन्त्येव । पटुकल्पतमः पटुकल्पतरः, पटुदेश्यतमः, पटदेश्यतरः पटुकल्परूपः, पटुदेश्यरूपः । पकारौ पुवद्भावाौँ । दर्शनीयकल्पा, दर्शनीयदेश्या। केचिद्देश्यं पितं नेच्छन्ति तन्मते दर्शनीयादेश्येत्येव भवति । देशीयरिति रेफो 'रिति' (३-२-५८) इत्यत्र विशेषणार्थः । स्रौनदेशीया । पञ्चमदेशीया ।११।
न्या० स० अतम०-पचतः कल्पमिति 'प्रत्यये' २-३-६ इत्यनेन सो न भवति अव्ययपर्युदासेन नाम्नो ग्रहणात्, अव्ययं नाम तद्वर्जनेनान्यदपि नाम गृह्यते । स्रौनदेशीयेति ईषदसमाप्ता स्रोघ्नी पञ्चमी वा, अनयोः 'तद्धितः स्वरवृद्धिः' ३-२-५५ इति 'तद्धिताककोपान्त्य ' ३-२-५४ इत्याभ्यां निषिद्धोऽपि 'रिति ' ३-२-५८ इत्यनेन पुंवद्भावः । नाम्नः प्राग्बहुवों ॥ ७. ३. १२ ॥
ईषदसमाप्तेऽर्थे वर्तमानानाम्नो बहुप्रत्ययो वा भवति स च प्राक पुरस्तादेव न परस्तात् । ईषदसमाप्तः पटुः बहुपटुः, बहुमृदुः, बहुभुक्तम्, बहपीतम, बहुगुडो द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूः, बहुचन्द्रो मुखम् । नामग्रहणं त्याद्यन्त निवृत्त्यर्थम् । त्याधन्तेषु सावकाशाः कल्पवादयो बहुना मा बाधिषतेति वावचनम् । तेन पक्षे तेऽपि भवन्ति ।१२॥ न तमबादिः कपोऽच्छिन्नादिभ्यः॥ ७. ३. १३ ॥
छिन्नादीन् वर्जयित्वान्यस्माधः कप् प्रत्ययस्तदन्तात्तमबादिः प्रत्ययो न भवति ।
अयमेषां प्रकृष्टः पटुकः, अयमनयोः प्रकृष्टः पटुकः । प्रकर्षादिमतः कुत्सितत्वादिविवक्षायां तमबाद्यन्तेभ्यः कप् भवत्येव । अयमेषामतिशयेन पटः कुत्सितः पटुतमकः, अयमनयोः, पटुतरकः, पटुरूपकः पटकल्पकः पटदेश्यकः, पटुदेशीयकः। कब् इति किम् ? कुटीरतमः। पकारः किम् ? लोहितकतमो मणिः । लोहितकतममक्षि कोपेन । अच्छिन्नादिभ्य इति किम? कुत्सितोऽल्पोऽज्ञातो वा छिन्नः छिन्नकः । अयमेषामतिशयेन छिन्नकः छिन्नकतमः, छिन्नकतरः, छिन्नकरूपः, छिन्नककल्पः । छिन्नादयः प्रयोगगम्याः ।१३। अनत्यन्ते ॥ ७. ३. १४ ॥ अनत्यन्तेऽर्थे यः कप तदन्तात्तमबादिर्न भवति, छिन्नाद्यर्थं वचनम् ।