SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ [पाद. ३. सू. १०-११] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३०७ अङ्गग्रहणं किम् ? शुक्लतमम् , शुक्लतरं रूपम् । अत्र हि गुण एव वत्तिन' तदुपसर्जने द्रव्य इति न भवति । ईयसोरुकार उदित्कार्यार्थः । पटीयसी ।। न्या स० गुणा०–तदुपसर्जन इति स गुण उपसर्जनं यत्र तत्र । त्यादेश्व प्रशस्ते रूपम् ॥ ७. ३. १०॥ त्याद्यन्तान्नाम्नश्च प्रशस्तेऽर्थे वर्तमानाद्रूपप् प्रत्ययो भवति । प्रशस्तं पचति पचतिरूपम्, पचतोरूपम्, पचन्तिरूपम् । त्याद्यन्तानां क्रियाप्रधानत्वात्तस्याश्च साध्यत्वेन लिङ्गसंख्याभ्यामयोगात् रूपबन्तस्यौत्सर्गिकमेकवचनं नपुसकलिङ्ग च भवति । प्रशस्तो वैयाकरणो वैयाकरणरूपः, पण्डितरूपः । प्रकृते प्रवृत्तिनिमित्तस्य वैस्पष्टयम् परिपूर्णता प्रशस्तत्वम्, तेनात्रापि भवति । वषल रूपोऽयमपि पलाण्डुना सुरां पिबेत् । दस्युरूपोऽयमप्यक्ष्णोरञ्जनं हरेत् । पटुतमरूपः, पटुतररूपः । पकारः पुंवद्भावार्थः । शोभनरूपा, दर्शनीयरूपा ॥१०॥ अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीयर् ॥ ७. ३. ११ ॥ ___ त्यादेश्चति वर्तते, संपूर्णता पदार्थानां समाप्तिः। सा किंचिदूना ईषदसमाप्तिः । तद्विशिष्ठेऽर्थे वर्तमानात्याद्यन्तान्नाम्नश्च तमबाधन्तजितात् कल्पप् देश्यप देशीयर इत्येते प्रत्यया भवन्ति । ईषदसमाप्तं पचति पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम्, पचतःकल्पम्, पचतोदेश्यम्, पचतोदेशीयम्, पचन्तिकल्पम्, पचन्तिदेश्यम्, पचन्तिदेशीयम्, पक्ष्यतिकल्पम् । अपाक्षीत्कल्पमित्यादि । पूर्ववन्नपुसकत्वमेकवचनं च। इदमेव त्यादिग्रहणं ज्ञापकम् शेषस्तद्धितो नाम्न एव भवति । ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः, कारककल्पः, कारकदेश्यः, कारकदेशीयः, कृतकल्पं भुक्तदेश्यम्, पीतदेशीयम्, ईषदसमाप्तो गुडो गुडकल्पा द्राक्षा, गुडदेश्या, गुडदेशीया, पयस्कल्पा यवागः, चन्द्रकल्पं मखम, तैलकल्पा प्रसन्ना। गुडादिधर्माणां माधुर्यादीनां द्राक्षादिष्वीषदसमाप्तत्वात गडादित्वेनेषदसमाप्ता द्राक्षादय एवमुच्यन्ते । कल्पबाधन्तमुपमेये वर्तमानमुपमेयलिङ्गसंख्यम् । बहुप्रत्ययपूर्वं तु प्रकृतिलिङ्गसंख्यम् । स्वभावाच्छब्दशक्तिरेषा यदुत स्वार्थिकाः केचित् प्रकृतिलिङ्गान्यतिवर्तन्ते यथा कुटीर:, शुण्डारः, शमीरुः, शमीरः, दैवतम्, औपयिकम्, औषधम् वाचिकमिति । केचित्तु नातिवर्तन्ते यावकः, मणिकः, हतिका, मृत्तिका, कासूतरी, गोणीतरी व्यावक्रोशी, व्यावहासीति । अतमवादेरिति किम् । यदा प्रकर्षा
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy