________________
३०४ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २ ० ५-६ ] च तन्निमित्तः प्रकर्षोऽपि नास्ति । कथं तहि शुक्लकृष्णयोः कृष्णो भास्वरतर. इति । भास्वरत्वमेकजातीयम् तदपेक्षो भविष्यति। कथमन्धानां काणतमः, अन्धशब्दस्य काणपर्यायत्वात्काणशब्दस्य चान्धपर्यायत्वाददोषः। कथमहिंसकः श्रेयान् पापीयान् प्राणिनां हन्तेत्यत्र तरवर्ये ईयस् । नैतयोः परस्परं स्पर्धा, किं तहि अन्यापेक्षा, पकारः पुंवद्भावार्थः । शुक्लतमा शाटी ॥५॥ __ न्या० स० प्रकृ०–सुसंहनन इति सुसंबद्ध इति समांसमामिति अत्र 'कालाध्वभाव' २-२-२३ इत्याधारस्य कर्मत्वे द्वितीयान्तस्य वीप्सायां द्वित्वम् । स्त्रीवत्सा चेति स्त्री वत्सा यस्याः सा तथा, सवत्सेत्युच्यमाने सह वत्सेन वत्सया या वर्तते इति संशयः स्यात् तन्निरासाय स्त्रीवत्सेत्युक्तम् ।
द्रव्यान्तरैति देवदत्तरूपात् द्रव्यादन्यद्रव्यं वस्त्रादि तत्र समवायी यो गुणः सूक्ष्मत्वादिः तेन । तद्वत इति प्रकृष्टगुणवद् द्रव्यवतश्चैत्रादेः परमार्थवृत्त्याऽस्यैव प्रकर्ष इत्यर्थः ।
कुरूणामिति कुरोरपत्यानि 'दुनादि' ६-१-११८ इति व्यः, 'बहुष्वस्त्रियाम्' ६-१-१२४ इति तस्य लुप् ।
तरबन्तात्त्वित्यादि द्वयोः शुक्लतरयोर्मध्ये प्रकृष्टः शुक्लतर इति विग्रहे सतीति ज्ञेयम । तथेति अनभिधानादित्यर्थः । बह्वाढ्यकतम इति प्रयोगे बहुव्रीहिज्ञापनाय कच् दर्शित ।
केचित्त्वित्यादि तन्मते सूक्ष्मतमवस्त्र इति प्रयोगो न भवति । कथमिति यदि बहूनां प्रकर्षोऽयं विधिस्तर्हि प्रधानतमोऽयं ग्राम इत्यत्र ग्रामपुरुषयोद्धयोः प्रकर्षे न प्राप्नोतीति कथमर्थः उत्तरं तु सुगममेव । महान् हिमवानिति अत्र सर्षपापेक्षया हिमवतो महत्त्वात् महच्छब्दात्तरप प्राप्नोति तर्युत्तरसूत्रेऽयं विचारो युक्तस्तरप उत्तरेण विधानात् १
सत्यं, प्रकर्षस्यात्र प्रस्तुतत्वात्तद्विचारप्रस्तावे उक्त इति न दोषः, विषमगुणयोः स्पर्धाया अभावात् प्रकर्षाभावे तमप् न प्राप्नोतीत्याह-कथमन्धानामिति,
कथमहिंसक इत्यादि द्वयोर्वाक्ययोः पृथक्प्राप्तयोः श्रेयः पापीयसोविषमगुणयोः परस्परापेक्षया प्रकर्ष प्रतिपद्यमान परः प्राह कथमित्यादि। अन्यापेक्षेति अन्यमहिंसकान्तरमपेक्षते, ' शीलिकामि' ५-१-६३ इति णः । द्वयोविभज्ये च तरप् ॥ ७. २. ६ ॥
द्वयोस्तदणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् विभज्ये च विभक्तव्ये च प्रकष्टेऽर्थे वर्तमानान्नाम्नस्तरप् प्रत्ययो भवति, तमपोऽपवादः ।
द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः, एवं सुकुमारतरः। पाचकतरः, गोतरो यः शकटं वहति सीरं च, गोतरा या समांसमां विजायते स्त्रीवत्सा च । दन्ताश्च ओष्ठौ च दन्तौष्ठम् दन्तौष्ठस्य, दन्ताः स्निग्धतराः । पाणी च पादौ च पाणिपादम्, पाणिपादस्य पाणी सुकुमारतरौ। अत्र यद्यपि विग्रहे बहत्वसंख्या प्रतीयते तथापि समाहारेऽवयवौ स्वार्थमात्रं दन्तत्वादिलक्षणम्