________________
[ ३०५
[ पाद. ३. सू. ७-८ ] श्री सिद्धहेमचन्द्र शब्दानुशासने सप्तमोध्यायः अभेदैकत्वसंख्यायोग्युपाददात न संख्याभेदमिति द्वयोरेव प्रकर्षः । यदा पुनरितरेतरयोगस्तदा बह्वर्थप्रकर्ष इति तमबेव भवति । अस्माकं च देवदत्तस्य च देवदत्तोऽभिरूपतरः । अत्रास्माकमित्येकस्यैव 'अविशेषणे द्वौ चास्मदः ' (२-२१२२ ) इति बहुवद्भावः । परुद्भवान्पटुरासीत् पटुतर ऐषयः । अत्रैकस्यापि पर्यायार्थार्पणया द्वित्वमिति द्वयोरेव प्रकर्षः । विभज्ये, सांकाश्यकेभ्यः पाटलिपुत्रका आढ्यतराः अभिरूपतराः सुकुमारतराः, सांकाश्यकेभ्यः पाटलिपुत्रकेभ्यश्र्च माथुरा आढचतराः अभिरूपतराः सुकुमारतराः, सांकाश्यकादिषु पाटलिपुत्रकादीनामप्रवेशात् विभागः, विभज्यस्य च विशेषणमप्यादयाद्यर्थः प्रकृष्टं विभज्यं भवति ततः प्रत्ययः । द्वयोर्विभज्ये चेति किम् ? गवां कृष्णा संपन्नक्षीरतमा, सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका आढद्यतमा इत्यत्र राश्यपेक्षया द्वित्वेऽपि शब्देन बहुत्वोपादानात्तरप् न भवति । विभज्यग्रहणमद्वित्वार्थम् । प्रकृष्टे इत्येव, अयमनयोः पटुः, सांकाश्य केभ्यः पाटलिपुत्रका आढयाः । पकारः पुंवद्भावार्थः । शुक्लतरा शाटी ॥ ६ ॥
न्या० स० द्वयोः०—तद्गुणयोरिति स विवक्षितः समानो गुणो ययोरिति विग्रहः । अभेदै - कत्वसंख्येति न विद्यते भेदो यस्याः सा अभेदा, सा चासावेकत्वसंख्या च यथौषधिरसाः सर्वे मधुन्या हितशक्तयः, अविभागेन वर्त्तन्ते तां संख्यां तादृशीं विदुः, चैत्रेण चैत्राभ्यां चैत्रैर्वा भूयत इत्यत्र या संख्या सा अभेदैकत्वसंख्येति । पर्यायार्थार्पणयेति पर्यायेषु पदुपटुतरादिषु अर्थस्य विशेषस्य चत्रादेरर्पणा ढौकनम् । गवां कृष्णेति अत्र यथा द्वयोरर्थयोर्मध्ये प्रकृष्टत्वं नास्ति तथा विभज्योSपि नास्ति, स हि भेदरूपमापन्नानां भवति, अत्र तु गोत्वेन सर्वाि कृष्णा गावोऽभिन्नाः ।
सांकाश्यकानां पाटलिपुत्रकाणां चेति प्रकर्षद्वारेण विभज्यद्वारेणापि न भवति, षष्ठ्यन्तपदाभ्यां समुदायस्याभिन्नस्यैव प्रतिपादनात् न त्वत्राप्यपायप्रतिपादिका पञ्चम्यस्ति, अपि तु चकारेणाविभागः प्रतीयते ।
ननु द्वयोरित्युक्तेऽपि अत्र न भविष्यति किं विभज्यग्रहणेन ?
इत्याह-विभज्यग्रहणमित्यादि विभज्ये इत्यसति द्वयोरेव प्रकृष्टे स्यात्, ततश्चासत्यपि भये यथा स्यादित्येवमर्थम् ।
fear
क्वचित् स्वार्थे ॥ ७. ३. ७ ॥
क्वचित् स्वार्थेऽपि तरप् प्रत्ययो पवति । प्रकृष्टे सिद्ध एव | अभिन्नमेवाभिन्नतरकम्, उपपन्नमेवोपपन्नतरकम्, उच्चैरेवोच्चैस्तराम् । कचिद्ग्रहणं शिष्टप्रयोगानुसरणार्थम् ॥७॥
कित्याद्येव्ययादसत्त्वे तयोरन्तस्याम् ।। ७. ३ ८॥
किंशब्दात् त्याद्यन्तात् एकारान्तादव्ययेभ्यश्च परयोस्तमप्तरपोरन्तस्या