________________
[पाद. ३. सू. ५-६] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३०३
निन्द्यो वैयाकरणः वैयाकरणपाशः, छान्दसपाशः । निन्ध इति किम् ? साधुर्वैयाकरणः। प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तकुत्सायामयमिष्यते, तेनेह न भवति । वैयाकरणश्चौरः । नक्षत्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तहि शीलमिति । पकारः वद्भावार्थः, कुत्सिता कुमारी कुमारपाशा, किशोरपाशा । अथेह वयोवचनत्वात्पुनर्जीः कस्मान्न भवति । कुमारादयो वयोवचना, न कुमारपाशादयः । निन्दावचना हि ते इति न भवति ॥४॥
न्या० स० निन्ये०-इति न भवतीति ननु पाशपः प्रत्ययस्य स्वार्थे उत्पन्नत्वात् कुमारपाशादयोऽपि वयोवचना इति प्राप्नोति ? ___ सत्यं, यत्र केवलवयोवाचित्वं तत्रैव ङीः गौणमुख्ययोरिति न्यायात् , कुमारपाशादयस्तु निन्दाविशिष्टवयोवाचिन इति । प्रकृष्टे तमप ॥ ७. ३. ५ ॥
प्रकृष्ट प्रकर्षवत्यर्थे वर्तमानान्नाम्नस्तमप् प्रत्ययो भवति । प्रकर्षोऽतिशयः । स च गुणक्रिययोरेव न जातिद्रव्ययोः । सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्लः शुक्लतमः, शुक्लतमौ, शुक्लतमाः, एवमाढयतमः, सुकुमारतमः, कारकतमः, साधकतमः, प्रकृष्टतमः। जातिद्रव्यवचनेभ्योऽपि गुणक्रियाप्रकर्षविवक्षायां भवति। गौरयं य सुसंहननः शकटं वहति । गोतमोऽयं यः सुलक्षणः शकट सीरं च वहति । गोतमयं या समांसमां विजायते स्त्रीवत्सा च । द्रव्यान्तरसमवायिना च प्रकृष्टेन गुणेन कृत्वा प्रकृष्ट द्रव्ये तद्वतः प्रत्ययो भवति । अतिशयेन सूक्ष्माणि वस्त्राण्यस्य सूक्ष्मवत्रतमः। प्रकर्षप्रत्ययान्ताच्च प्रकर्षस्यापि प्रकर्षविवक्षायां प्रत्ययो भवति । यथा युधिष्ठिरः श्रेष्ठतमः कुरूणाम्, तरवन्तात्तु तरपन भवति, अनभिधानात् । तथा यथा पूर्वपदातिशये पूर्वपदादहुव्रीहेर्वा आतिशायिकः प्रत्ययो भवति सूक्ष्मतमवस्त्रः सूक्ष्मवस्त्रतमो वा न तथोत्तरपदातिशये बहुव्रीहेः बह्वाढयकतम इति किंतूत्तरपदादेव । बहव आढचतमा यत्र बह्वाढथतमकः । केचित्तु पूर्वपदातिशये बहुव्रीहेरेवातिशायिकमिच्छन्ति । द्वयोः प्रकर्षे तरपो विधानात् बहूनां प्रकर्षेऽय विधिः ।
कथं तहि प्रधानमयं ग्रामः प्रधानतमोऽयं ग्रामे, आढथ नगरम् आढथतमोऽयं नगरे । एकस्मिन्नपि निर्दिष्टे समुदाये तदन्तर्गतावयवान्तरापेक्षया प्रकर्षे भविष्यति । प्रकृष्ट इति किम् ? महत्सर्षपं महान् हिमवानिति । शुक्लापेक्षया च कृष्णे माभूत् । अदूरविप्रकर्षे समानगुणक्रिययोश्च स्पर्धा भवति, नहि निष्कधनः शतष्किधनेन स्पर्धते । आढयाभिरूपौ वा गन्तृपाचकौ वा। तथा