________________
॥ तृतीयः पादः॥ प्रकृते मयट् ॥ ७. ३. १ ॥
प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम्, प्रकृतेऽर्थे वर्तमानान्नाम्नः स्वार्थे मयट् प्रत्ययो भवति ।
अन्नं प्रकृतम् अन्नमयम्, घृतमयम्, दधिमयम्, टकारो ड्यर्थ:यवागूमयी। अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागूः प्रकृता यवागूमयम् । एवमुत्तरत्रापि । अपूपाः प्रकृताः आपूपिकम् अपूपमयम्, शष्कुल्यः प्रकृताः शाष्कुलिकम् शष्कुलीमयम् । प्रकृत इति किम् ? अन्नम् घृतम् ॥१॥ ___न्या० स० प्रकृते.-अन्नमयमिति अन्नं प्रचुरं प्रधानं वेत्यर्थः। अतिवर्तन्ते इति इहानमयमित्यादिषु युक्तमन्नादेर्नपुंसकत्वात् प्रत्ययस्यापि तत्रैव वृत्तिरिति यवागूमयीत्यपि युक्तमेष प्रकृत्यर्थस्य स्त्रीत्वात् प्रत्ययस्य स्वार्थिकस्य तत्रैव स्त्रियां वृत्तः, यवागूमयमिति त्वयुक्तं यवाग्वर्थस्य स्त्रीत्वात् स्वार्थिकस्य प्रत्ययस्यापि तत्तैव वृत्रैर्नपुंसकत्वायोगादित्याशङ्का ।।
अस्मिन् ॥ ७. ३. २ ॥ प्रकृतेऽर्थे वर्तमानान्नाम्नोऽस्मिन्निति सप्तम्यर्थे मयट् प्रत्ययो भवति ।
अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम्, अपूपमयं पर्व, वटकमयी यात्रा, यवागूमयी इष्टिः ॥२॥ तयोः समूहवच्च बहुषु ॥ ७. ३. ३ ॥
तयोः 'प्रकृते' 'अस्मिन्' इत्येतयोविषययोर्बहुषु वर्तमानान्नाम्नः समूहवत्प्रत्ययो भवति चकारान्मयट् च ।
अपूपाः प्रकृताः आपूपिकम्, अपूपमयम्, मौदकिकम्, मोदकमयम्, शाष्कुलिकम्, शष्कुलीमयम् । 'कवचिहस्त्यचित्ताच्चेकण्' 'धेनुकम् धेनुमयम्, 'धेनेारनञः' । अपूपाः प्रकृता अस्मिन् आपूपिकम् अपूपमयं पर्व, मौदकिकी मोदकमयी पूजा, गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या, गणिकामयी यात्रा। 'गणिकाया ण्यः' । अश्वीया अश्वमयी यात्रा। 'वाश्वादीयः' ॥३॥ निन्द्ये पाशप ॥ ७. ३. ४ ॥
निन्द्येऽर्थे वर्तमानान्नाम्नः स्वार्थे पाशप् प्रत्ययो भवति ।