________________
[पाद. २. सू. १७०-१७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३०१ वैनयिकम्, समय एव सामयिकम् । विनय, समय, समाय, कथंचित्, अकस्मात्, उपचार, व्यवहार, समाचार, संप्रदाय, समुत्कर्ष, संगति, संग्राम, समूह, विशेष, अव्यय, अत्यय, अनुगादिन् इति विनयादिराकृतिगणः ।।१६९॥ उपायादुध्रस्वश्च ॥ ७. २. १७० ॥
उपायशब्दात्स्वार्थे इकण् प्रत्ययो वा भवति तत्संनियोगे च हूस्वः । उपाय एव औपयिकम् ।।१७०॥ मृदस्तिकः ॥ ७. २. १७१ ।।
मृच्छब्दात्स्वार्थे तिकः प्रत्ययो वा भवति । मदेव मृत्तिका ॥१७१॥ सस्नो प्रशस्ते ॥ ७. २. १७२ ॥
मृद् इत्येतस्मात् प्रशस्तेऽर्थे वर्तमानात् स स्न इत्येतौ प्रत्ययौ वा भवतः, रूपप्रत्ययापवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना, केचित्तु रूपमपीच्छन्ति प्रशस्ता मृत् मृदूपा ॥१७२॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहवृत्तौ सप्तमाध्यायस्य द्वितीयः पादः समाप्तः ॥७२. १७२ ॥ उत्साहसाहसवता भवता नरेन्द्र, धारावतं किमपि तद्विषमं सिषेवे । यस्मात्फलं न खलु मालवमात्रमेव श्रीपर्वतोऽपि तव कन्दुककेलिपात्रम् ॥१॥ ____ इत्याचार्य श्री हेमचन्द्रविरचितायां बृहद्वृत्तावचूर्णिकायां सप्तमस्पाध्यायस्य द्वितीयः पादः समाप्तः।