________________
३०० ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० १६६-१६९ ]
प्रज्ञ, वणिज, उशिज, प्रत्यक्ष, विद्वस्, विदत्, विदन्त, द्विदत्, षोडत्। विद्या, मनस्, जुह्वत्, चिकीर्षत्, चिकीर्षति, वसु, मरुत्, (वसुमत्) सत्वस्, सन्वतु, सर्व, दशाह, क्रुञ्च, वयस्, रक्षस्, असुर, शत्रु, चोर, योध, चक्षुस्, पिशाच, अशनि, कर्षापण, देवता, बन्धु, अनुजा, वर, अनुषुक, चतुष्प्रास्य, रक्षोघ्न, वियात, विकृत, विकृति, व्याकृत, वरिवस्कृत, अग्रायण, अग्रहायण, संतपन, मधुप, द्विधा, (ता) चण्डाल, गायत्री, उष्णिह, अनुष्टुभ्, बृहती, पङक्ति, त्रिष्टुभ्, जगती, इति प्रज्ञादिराकृतिगणः । तेन आग्नीधी आग्नीध्रा वा शाला साधारणी साधारणा वा भूमिरित्यादि सिद्धम् ॥१६५॥ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७. २. १६६ ॥
श्रोत्र, ओषधि, कृष्ण इत्येतेभ्यो यथासंख्यं शरीरे भेषजे मृगे च वर्तमानेभ्यः स्वार्थेऽण् प्रत्ययो वा भवति ।
श्रोत्राच्छरीरे, श्रोत्रमेव श्रौत्रं शरीरम्, श्रोत्रमेवान्यत् । ओषधेर्भेषजे ओषधिवौषधम् भेषजम् । ओषधिरेवान्यत् । कृष्णान्मृगे। कृष्ण एव कार्गो मृगः, कृष्ण एवान्यः ॥१६६॥ कर्मणः संदिष्टे ॥ ७ २. १६७ ।। संदिष्टेोऽर्थे वर्तमानात्कर्मणः स्वार्थेऽण् प्रत्ययो भवति ।
अन्येनान्योन्यस्मै यदाह त्वयेदं कर्तव्यमिति तत्संदिष्टं कर्म । कर्मैव कार्मणं करोति, संदिष्टं कर्म करोतीत्यर्थः। वशीकरणमपि वृद्धपरंपरोपदेशात क्रियते इति कार्मणमुच्यते । संदिष्ट इति किम् ? कर्म करोति । सत्यपि महावाधिकारे विशिष्टोऽर्थः प्रत्ययमन्तरेण न प्रतीयते इत्यस्मिन् विषये नित्य एव प्रत्ययः ।१६७। वाच इकण् ॥ ७. २. १६८॥
संदिष्ठोऽर्थे वर्तमानाद्वाचशब्दात्स्वार्थे इकण् प्रत्ययो भवति ।
अन्येनान्योऽन्यस्मै यामाह सा संदिष्टा वाक् । वागेव वाचिकं कथयति, संदिष्टां वाचं कथयतीत्यर्थः। संदिष्ट इत्येव, चित्रा वाक चैत्रस्य । अत्रापि पूर्ववन्नित्यो विधिः ॥१६॥ विनयादिभ्यः ॥ ७. २. १६९ ॥
विनय इत्येवमादिभ्यः स्वार्थे इकण् प्रत्ययो वा भवति । विनय एव