________________
[ पाद. २. सू. १६०-१६५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२९९ नवादीनतनत्नं च नू चास्य ॥ ७. २. १६०॥
नवशब्दात्स्वार्थे ईन, तन, त्न चकाराद्यश्च प्रत्यया वा भवन्ति, तत्संनियोगे च नवशब्दस्य नू इत्ययमादेशो भवति । नवमेव नवीनम्, नूतनम्, नूत्नम्, नव्यम् ।१६०। प्रात्पुराणे नश्च ।। ७. २. १६१॥
प्रशब्दात्पुराणेऽर्थे वर्तमानात् स्वार्थे नः प्रत्ययो भवति, चकारादीनतनत्नाश्च ।
प्रगतं कालनेति प्रशब्देन पुराणमुच्यते, प्रणं, प्रीणं, प्रतनम्, प्रत्नम् ।१६१। देवात्तल ॥ ७. २. १६२ ॥ देवशब्दात् स्वार्थे तल् प्रत्ययो वा भवति ।
देव एव देवता, लित्करणं स्व्यर्थम् ।१६२। होत्राया ईयः ॥ ७. २. १६३ ॥
होत्राशब्दात्स्वार्थे ईयः प्रत्ययो वा भवति । होत्रैव होत्रीयम् ॥१६३। भेषजादिभ्यष्टयण् ।। ७. २. १६४॥ भेषज इत्येवमादिभ्यः स्वार्थे टयण प्रत्ययो भवति वा ।
भेषजमेव भैषज्यम्, अनन्त एव आनन्त्यम, आवसथ एव आवसथ्यम्, इतिह इत्येव ऐतिह्यम्। इतिहेति निपातसमुदाय उपदेशपारंपर्ये वर्तते । चत्वार एव वर्णाश्चातुर्वर्ण्यम्, चातुराश्रम्यम् । चत्वारो वेदाश्चतस्रो विद्या वा चातुर्वैद्यम्, एवं त्रैवैद्यम् । अनुशतिकादित्वादुभयपदवृद्धिः । त्रैलोक्यम्, ऐकभाव्यम्, द्वैभाव्यम्, त्रैभाव्यम्, आन्यभाव्यम्, सार्ववैद्यम्, सार्वलोक्यम्, षाड्गुण्यम् । शोलमेव शैलीयम् आचार्यस्य । भैषज्यानन्त्यावसथ्यति ह्यशब्दा यदि स्त्रियां स्युस्तदा अजादिषु द्रष्टव्याः॥ भेषजादयः शिष्टप्रयो गगम्याः ॥१६४।।
न्या. भेष. चातुर्वैद्यमिति 'व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा' १-३-४७ इति यलोपः, अथ भैषज्यादय आबन्ताः स्त्रियां दृश्यन्ते ते कथमित्याह-अजादिष्वित्यादि अन्यथा ट्यणन्तत्वात् डीः स्यात् ।। प्रज्ञादिभ्योऽण् ॥ ७. २. १६५ ॥
प्रज्ञ इत्येवसादिभ्यः स्वार्थेऽण् प्रत्ययो वा भवति ।
प्रजानातीति प्रज्ञः प्रज्ञ एव प्राज्ञः, प्राज्ञी कन्या । प्रज्ञास्या अस्तीति णे प्राज्ञा कन्या । वणिगेव वाणिजः ।.