________________
२९८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू. १५६-१५९ ] यावदेव यावद्द्वयसम्, यावन्मात्रम्, तावदेव तावद्वयसम्, तावन्मात्रम्, एतावदेव एतावद्वयसम्, एतावन्मात्रम्, कियद्वयसम्, कियन्मात्रम् । प्रायोग्रहणं प्रयोगानुसरणार्थम् ।१५५॥
न्या० स० प्रायो०-याववियसमिति स्त्रियां यावतीद्वयसी, सामान्यविवक्षायां प्रत्यये पश्चात् स्त्रीत्वे यावद्वयसीत्यपि । वर्णाव्ययात्स्वरूपे कारः ॥ ७. २. १५६ ॥
वर्णेभ्योऽव्ययेभ्यश्च स्वरूपार्थवृत्तिभ्यः स्वार्थे कारः प्रत्ययो भवति ।
अकारः, इकारः, ककारः। खकारः । ककारादिष्वकार उच्चारणार्थः । अव्यय,-ओंकारः, स्वाहाकारः, स्वधाकारः, वषट्कारः, हन्तकारः, नमस्कारः, चकारः, इतिकारः, एवकारः, हुंकारः, पूत्कारः, सीत्कारः, सूत्कारः।
ननु यथा हुंकृतिः, पूत्कृतिः, सूत्कृतम्, सीत्कृतमिति भवन्ति तथा कारशब्देन घअन्तेन समासे ओंकारादयो भविष्यन्ति ? सत्यम्, किंतु ओंकारमुच्चारयति वषट्कारमभिधत्ते हुकारं करोतीत्यादि न सिध्यति ।
स्वरूप इति किम् ? अ: विष्णुः, इ. कामः कः ब्रह्मा, खम् आकाशम्, ओं ब्रह्म, वषडिन्द्राय, स्वाहाग्नये, स्वधा पितृभ्य इत्यर्थपरतायां न भवति । प्रायोऽनुवत्तेरन्यत्रापि भवति । मन एव मनस्कारः, अहमेवाहंकारः ।१५६।
न्या० स० वर्णा०-नमस्कार इति कस्कादित्वात् सः न तु 'प्रत्यये' २-३-६ इत्यनेन तत्रानव्ययस्येत्यधिकारात् ।
ओकारमुच्चारयतीति यद्यत्र कृ इत्यस्य कार इति निष्पद्यते तदा ओमिति करणस्य किमुचारणं भवतीति न संगच्छते । मनस्कार इति मनसू शब्दः स्वरादित्वात् अव्ययश्चित्ताभोगे वर्त्तते, कस्कादित्वात् सः।
रादेफः ॥ ७. २. १५७ ॥ रशब्दादेफः प्रत्ययो वा भवति । रेफः, प्रायोवचनाद्रकार इत्यपि ।१५७। नामरूपभागाद्धयः ॥ ७. २. १५८॥ . नामन, रूप, भाग इत्येतेभ्यः स्वार्थे धेयः प्रत्ययो वा भवति ।
नामैव नामधेयम्, रूपमेव रूपधेयम्, भाग एव भागधेयम् ।१५८॥ मादिभ्यो यः ॥ ७. २. १५९ ।। मत इत्येवमादिभ्यः स्वार्थे यः प्रत्ययो वा भवति ।
मर्त एव मर्त्यः, सूर एव सूर्यः, एवं क्षेभ्यः, यविष्यः, भाग्यम्, अपराध्यम्, रव्यम्, लव्यम् । मर्तादयः प्रयोगगम्याः ।१५९।