________________
[ पाद. २. सू. १५२-१५५ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [२९७
- न्या. स० संख्यैः-एकैकश इति 'प्लुपचादावेकस्य स्यादेः' ७-४-८१ इति द्विवचने आदिविभक्ते छ । संख्यादिः पादादिभ्यो दानदण्डे चाकलू लुक च ॥ ७. २. १५२ ॥
संख्यायाः प्रकृत्याधवयवात्परे ये पादादयस्तदन्तानाम्नो दानदण्डे चकाराद्वीप्सायां च विषयेऽकल प्रत्ययो भवति, तत्संनियोगे च प्रकृतेरन्तस्य लुग्भवति ।
द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति, त्रिपदिकां ददाति, द्वे शते व्यवसृजति, द्विशतिकां व्यवसृजति । द्विमोदकिकाम् त्रिमोदकिकाम् त्यजति, दण्डे द्वौपदी दण्डितः द्विपदिकां दण्डितः, एवं त्रिपदिकाम् द्विशतिकाम् त्रिशतिकाम, द्विमोदकिकाम्, त्रिमोदकिकाम्, वीप्सायां, द्वौ द्वौ पादौ भुङ्क्ते द्विपदिकां भुक्ते, त्रिदिकाम्, द्विशतिकाम्, त्रिशतिकाम, द्विमोदकिकाम्, त्रिमोदकिकाम् । संख्यादेरिति किम् ? पादं ददाति, पादं दण्डितः, पादं पादं भुङ्क्त । पादादिभ्य इति किम् ? द्वौ द्वौ माषौ ददाति । दानदण्डे चेति किम् ? द्वौ पादौ भुक्ते । चकारो वीप्साया अनुकर्षणार्थः। लकारः स्त्रीत्वार्थः । लुग्वचनम् अनिमित्तलुगर्थम्, तेन पादः पद्भावो भवति । परिनिमित्तायां तु लुचि स्थानिवद्भावो न स्यात् । पादादयः प्रयोगतोऽनुसर्तव्याः ।१५२।। ___न्या० स० संख्या-अनिमित्तलुगर्थमिति नन्वकलि 'अवर्णेवर्णस्य ' ७-४-६८ इति प्रकृत्यन्तस्य लुप् भविष्यति किमर्थ लुग्वचनमित्याशङ्का । तीयाट्रीकण न विद्या चेत् ॥ ७. २. १५३ ॥
तीयमत्ययान्तात्स्वार्थे टीकण प्रत्ययो वा भवति, न चेत्तीयान्तस्य विद्या विषयो भवति ।
द्वितीयम् द्वैतीयीकम्, तृतीयं तार्तीयीकम् । टकारो ड्यर्थः । द्वैतीयीकी, तार्तीयीकी शाटी न विद्या चेदिति किम् ? द्वितीया विद्या, तृतीया विद्या, मुखतीयः पार्श्वतीय इति तीयस्यानर्थकत्वान्न भवति ।१५३।
न्या० स० तीया-मुखतीय इत्यादि मुखे मुखतः आद्यादिभ्यस्तस् मुखतो भवः गहादिभ्य ईयः 'प्रायोऽव्ययस्य' ७-४-६५ इत्यन्तलोपः, एवं पार्वतीयः । निष्फले तिलात् पिञ्जपेजौ ॥७. २. १५४ ।।
तिलशब्दान्निष्फलेर्थे वर्तमानात् पिञ्जपेज इत्येतो प्रत्ययो भवतः । • निष्फलस्तिल: तिलपिञ्जः, तिलपेजः ।१५४। प्रायोऽतोद्धयसटमात्रट् ॥ ७. २. १५५ ॥
अनुप्रत्ययान्तात् स्वार्थे द्वयसट मात्रट् इत्येतौ प्रत्ययौ भवतः प्रायः ।