________________
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. २ सू० १५० - १५१ ]
७ २ १५० ॥
बह्वल्पार्थात्कारकादिष्टानिष्टे प्रशस् ॥ बह्वर्थादल्पार्थाच्च कारकाभिधायिनो नाम्नः पशस् प्रत्ययो वा भवति यथासंख्यमिष्टेऽनिष्टे च विषये ।
२९६ ]
7
इष्टं प्राशित्रादि, अनिष्टं श्राद्धादि ग्रामे बहवो ददति, बहुशो ददति, बहु धनं ददाति, बहुशो धनं ददाति, विवाहे बहून् कार्षापणान् ददाति, बहुशः कार्षापणान् ददाति विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो ददाति बहुशोऽतिथिभ्यो ददाति, बहुभ्यो ग्रामेभ्य आगच्छति बहुशो ग्रामेभ्य आगच्छति । बहुषु ग्रामेषु वसति, बहुशो ग्रामेषु वसति । एवं भूरिशः, प्रभूतराः, गणशः । अल्पार्थे, अल्प आगच्छति अल्पश आगच्छति । अल्पं धनं ददाति, अल्पज्ञो धनं ददाति । श्राद्धे अल्पैर्भुक्तम् अल्पशो भुक्तम्, अल्पेभ्यो ददाति, अल्पशो ददाति, अल्पेभ्य आगतम्, अल्पेषु वसति, अल्पशो वसति, एवं स्तोकशः, कतिपयशः । बह्वल्पार्थादिति किम् ? गां ददाति, अश्व ददाति । कारकादिति किम् ? बहूनां स्वामी । इष्टानिष्ट इति किम् ? बहु ददाति श्राद्धे, अल्पं ददाति प्राशित्रादौ । पकारः पित्कार्यार्थः ।। १५०॥
संख्यैकार्थाद्वीप्सायां शस् ॥ ७. २. १५१ ॥
संख्यावाचिन एकस्वविशिष्टार्थवाचिनश्च कारकाभिधायिनो नाम्नो वीष्सायां द्योत्यायां शस् प्रत्ययो भवति । वीप्सायां द्विर्वचनस्य प्राप्ती तदपवादोऽयम्, वाधिकारात्पक्षे द्विर्वचनमपि भवति ।
एकैकं ददाति - एकशो ददाति द्वौद्वौ द्विशः, एवं त्रिशः, तावच्छः, कतिशः, गणशः । एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः, त्रिशः, तावच्छ, एवं कतिशः, गणशः । एकार्थ, माषं माषं देहि मांषशो देहि, कार्षापणशः, पणशः, पादशः, पलशः, प्रस्थश, अर्धशः, पर्वशः, तिलश: संघशः पूगशः, वृन्दशः पक्तिशः, वनशः प्रविशतिः, कूपीशः खनति, कुम्भीशः कलशीशो ददाति । क्रमश इति क्रमवतां भेदात् क्रमेणक्रमेणेति वीप्सा भवति । संख्यैकार्थादिति किम् ? माषौ माषौ ददाति । वीप्सायामिति किम् ? द्वौ ददाति मासं ददाति तानेकैकशः पृच्छेत् एकैशोऽपि निघ्नन्ति एकैकशो ददातीति वीप्सायां द्विरुक्तात्पूर्वेणात्पार्थादिति प्रशस् । वीप्सितवीप्सायां वानेनैव शस् । एकैकम् एकैकं पृच्छेदित्यर्थः । कारकादित्येव ? द्वयोर्द्वयोः स्वामी । माषस्य माषस्येष्टे ।। १५१