________________
२९२ ]
बृहद्वृत्ति-लघुन्याससंबलिते
[ पाद. २ सू० १३५-१३६ ।
स्यात्, देवान् करोति देवत्रा करोति, देवान् गच्छति देवत्रा गच्छति । एवं मनुष्यत्रा वसति, मनुष्यत्रा गच्छति, मर्त्यत्रा वसति मर्त्यत्रा गच्छति, पुरुषत्रा वसति, पुरुषत्रा गच्छति, पुरुत्रा वसति, पुरुत्रागच्छति, बहुत्रा वसति, बहुत्रा गच्छति । देवादयः शिष्टप्रयोगगम्याः ॥ १३४॥
तीयशम्बबीजात् कृगा कृषौ डाचू ।। ७. २. १३५॥
तीयप्रत्ययान्तात् शम्बबीज इत्येताभ्यां च करोतिना योगे कृषिविषये डाच् प्रत्ययो भवति ।
द्वितीयं वारं करोति क्षेत्रं द्वितीया करोति क्षेत्रम्, द्वितीयं वारं कृषतीत्यर्थः, तृतीयाकरोति क्षेत्रम्, तृतीयं वारं कृषतीत्यर्थः । शम्बाकरोति क्षेत्रम्, अनुलोमकृष्टं पुनस्तिर्यक् कृषतीत्यर्थः । अन्ये त्वाहुः शम्बसाधनः कृषिरिति शम्बेन कृषतीत्यर्थः ।
एके तु शम्बाकरोति कुलिवमित्युदाहरन्ति । लोहकं वा वर्ध्रकुण्डलिका वा बम्, तत् कुलिवस्य करोतीत्यर्थः । बीजाकरोति क्षेत्रम्, उप्ते पश्चाद्बीजैः सह कृषतीत्यर्थः । यदाप्येवं विग्रहः क्षेत्रस्य द्वितीयां कृषि, कर्ष, कर्षणं करोति । शम्बं करोति क्षेत्रस्य कुलिवस्य वा बीजं करोति क्षेत्रस्येति तदापि द्वितीयाकरोति क्षेत्रमित्यादौ क्षेत्रात् द्वितीया भवति । द्वितीयाकरोतीत्यादयो हि मुण्डयतीत्यादिवत् क्रियाशब्दास्तेषां च क्षेत्रादि कर्म भवति । कृगेति किम् ? द्वितीयं वारं कृषति । कृषाविति किम् ? द्वितीयं पटं करोति । चकारो, ‘डाच्यादौ ’– ( ७ - २ - १४९) इत्यत्र विशेषणार्थः । ९३५ ।
न्या० स० तीय० - प्रत्ययान्तादिति ' द्वस्तीयः ७-१-१६५ इत्यादिविहितात् यस्तु मुखतीय इत्यादौ तीयस्तदन्तादनर्थकत्वान्न भवति ।
शम्बसाधन इति शम्बो हलभेदः स साधनं कारकं यस्य, यदाप्येवं विग्रह इति ननु प्रथम षष्ठी डाचि उत्पन्ने कथं द्वितीयेत्याशङ्का ।
संख्यादेर्गुणात् ।। ७. २. १३६ ॥
संख्याया आद्यवयवात्परो यो गुणशब्दस्तदन्तात् कृगा योगे कृषिविषये डाच् प्रत्ययो भवति ।
द्विगुणं कर्षणं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम्, त्रिगुणाकरोति क्षेत्रम् | क्षेत्रस्य द्विगुणं त्रिगुणं च विलेखनं करोतीत्यर्थः । कृषाबित्येव । द्विगुणां रज्जु करोति । १३६ ।