________________
[ पाद. २. सू. १३१-१३४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २९१ जातेः संपदा च ॥ ७. २. १३१ ॥
कृभ्वस्तिभिः संपदा च योगे करातिकमणो भ्वस्तिकतु : संपदिकतु श्च प्रागतत्तत्त्वेन जातेः सामान्यस्य व्याप्ती स्सात्प्रत्ययो भवति ।
अस्यां सेनायां सर्वं शस्त्रमग्निसात्करोति देवम्, अस्यां सेनायां सर्व शस्त्रमग्निसाद्भवति, अग्निसात् स्यात्, अस्यां सेनायां सर्वं शस्त्रमग्निसात्संपद्यते । वर्षासु सर्वं लवणमुदकसाकरोति मेघः, उदकसाद्भवति, उदकसात् स्यात्, उदकसात्संपद्यते । यथव टेकस्य द्रव्यस्य सर्वावयवाभिसंबन्धे प्रागतत्तत्त्वेन व्याप्तिर्भवति तथा जाते: सामान्यस्य सर्वव्यक्तिसंबन्धे भवति । एवं च व्याप्ताविति सामान्योपादानात् कृभ्वस्तियोगे पूर्वेणैव स्सात्सिद्धः संपद्यर्थं तु वचनम्, चकार उत्तरत्रोभयोः समुच्चयार्थः ॥१३१॥ तत्राधीने ॥ ७. २. १३२ ॥
कृभ्वस्तिभ्यां संपदा चेत्यनुवर्तते, कर्मकर्तृभ्यां प्रागतत्तत्त्वे इति च निवृत्तम्। तत्रेति सप्तम्यन्तादधोने आयत्तेऽर्थे कृभ्वस्तिसंपद्भिर्योगे स्सात्प्रत्ययो भवति ।
राजन्यधीनं करोति राजसात्करोति, राजस्वामिकं करोतीत्यर्थः, राजसाद्भवति, राजसात्स्यात्, राजसात्संपद्यते। आचार्यसात्करोति, आचार्यसाद्भवति, आचार्यसात् स्यात्, आचार्यसात्संपद्यते ॥१३२॥
न्या० स० तत्र०-निवृत्तमिति तत्रेति भणनात् कर्मकर्तृभ्यामिति अधीने इत्यभिनवार्थोपादानाञ्च प्रागतत्तत्व इति । देये त्रा च ॥ ७. २. १३३ ॥
तत्रेति सप्तन्यन्ताद्दयोपाधिकेऽधीनेऽर्थे कृभ्वस्तिसंपद्भिर्योगे त्राप्रत्ययो भवति । चकारो न स्सातोऽनुकर्षणार्थः तस्याधीनतामात्रविवक्षायां पूर्वेणैव सिद्धत्वात् । किंतु कृभ्वस्तिभ्यां संपदा चेत्यस्यानुकर्षणार्थः, तेनोत्तरत्र नानुवर्तते।
देवेऽधीनं देयं करोति देवत्रा करोति द्रव्यम्, देवाय दातव्यमिति यत् स्थापितं तदिदानी देवाय ददातीत्यर्थः, देवेऽधीनं देयं भवति देवत्रा भवति । देवत्रा स्यात्, देवत्रा संपद्यते, गुरुत्रा करोति, गुरुत्रा भवति, गुरुत्रा स्यात, गुरुत्रा संपद्यते । देय इति किम् ? राजसाद्भवति राष्ट्रम् ।।१३३॥ • सप्तमी द्वितीयाद्देवादिभ्यः ॥ ७. २. १३४ ॥
सप्तम्यन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यस्त्रा प्रत्ययो वा भवति स्वार्थे । देवेषु वसति देवत्रा वसति, देवेषु भवति देवत्रा भवति, देवेषु स्याद्देवत्रा