________________
२९० ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू. १२८-१३० ] लुग्भवति । अनरुः अरुः करोति अरूकरोति, अरूभवति अरूस्यात्, महारूकरोति; प्रहारूभवति, महारूस्यात्, मनीकरोति, मनीभवति मनीस्यात्, उन्मनीकरोति, उन्मनीभवति, उन्मनीस्यात्, चर्करोति, चक्षुभवति चर्स्यात्, उच्चक्षुकरोति, उच्चक्षुभवति, उच्चक्षुस्यात्, चेतीकरोति चेतीभवति, चेतीस्यात्, विचेतीकरोति, विचेतीभवति, विचेतीस्यात्, रहीकरोति । रहीभवति, रहीस्यात्, विरहीकरोति, विरहीभवति, विरहीस्यात्, रजीकरोति, रजीभवति, रजीस्यात्, विरजीकरोति, विरजीभवति, विरजीस्यात् । च्याविति किम् ? अरुः करोति । बहुवचनं तदन्तानामपि परिग्रहार्थम्, अन्यथा ग्रहणवता न तदन्तविधिरित्युपतिष्ठेत् ॥१२७॥ इसुसोर्बहुलम् ॥ ७. २. १२८ ॥
इस् उस् इत्येवमन्तस्य च्वौ परे बहुलमन्तस्य लुक भवति ।
अपिः सपिः करोति सीकरोति नवनीतम्, धनूभवति वंशः । न च भवति सपिर्भवति धनुर्भवति । बहुलग्रहणं प्रयोगानुसरणार्थम् ॥१२८॥ व्यञ्जनस्यान्त ईः ॥७. २. १२९ ।। व्यञ्जनान्तस्य च्वौ परे बहुलमीकारोऽन्तो भवति ।
दपदीभवति शिला, समिधीभवति काष्ठम् । न च भवति दपद्भवति, समिद्भवति ॥१२९।।
न्या० स० व्यञ्ज०-नन्वन्तग्रहणं किमर्थम् ? सत्यं, व्यञ्जनादीरिति कृते प्रकृतेः प्रत्ययत्वात् दरदोऽपत्यं स्त्री 'पुरुमगध' ६-१-११६ इत्यणि 'देखणो' ६-१-१२३ इति लुपि अदर दरद् भवतीति च्वावनेन ईप्रत्यये 'जातिश्च णि' ३-२-५१ इति पुंभावः स्यात्ततश्च दारदीति स्यात् , दरदीति चेष्यते । व्याप्तौ स्सात् ॥ ७. २. १३०॥
कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे इति वर्तते । एतस्मिन्विषये सकारादिः सात् प्रत्ययो भवति, व्याप्तौ प्रागतत्तत्त्वस्य चेद्व्याप्तिः सर्वात्मना द्रव्येणाभिसंबन्धो गम्यते । द्विसकारपाठः पत्वनिषेधार्थः । सर्वं काष्ठं प्रागनग्निमग्नि करोति अग्निसात्करोति काष्ठम्, अग्निसाद्भवति, अग्निसात् स्यात् । उदकसात्करोति लवणम्, उदकसाद्भवति, उदकसात् स्यात् ।
व्याप्ताविति किम् ? अग्नीकरोति काष्ठम्, अग्नीभवति अग्नीस्यात्काष्ठम् । सत्यामपि वस्तुनि व्याप्तौ प्रागतत्तत्त्वमात्रे विर्भवत्येवेति नार्थो वावचनेन । अग्नीकरोति, अग्नीभवति, अग्नीस्यात्काष्ठम्, उदकीकरोति, उदकीभवति उदकीस्याल्लवणम् । व्याप्तिस्तु प्रकरणादेर्गम्यते ॥१३०॥