________________
[ पाद २. सू. १२६-१२७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २८९ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वं चिः ॥ ७. २. १२६ ॥
भूश्च अस्तिश्च भवस्ति का च भ्वस्ति च कृभ्वास्तिनी ताभ्यांकृभ्वस्तिभ्याम, द्विवचनं कर्मकर्तृभ्यामिति ययासंख्यार्थम् । करोतिकर्मणो भ्वस्तिकतुश्च प्राक पूर्वमतस्य तत्त्वेऽभूततद्भावे गम्यमाने कृभ्वस्तिभ्यां च योगे च्विः प्रत्ययो भवति । द्रव्यस्य गुणक्रियाद्रव्यसंबन्धसमूहविकारयोगे प्रागतत्तत्त्वमुदाहार्यम् ।
शुक्लीकरोति पटम् , प्रागशुक्लं शुक्लं करोतीत्यर्थः, शुक्लीक्रियते पटः प्रागंशुक्लः शुक्लः क्रियत इत्यर्थः । शुक्लीकरणम्, शुक्लीभवति पटः । प्रागशुक्लः पट इदानीं शुक्लो भवतीत्यर्थः । शुक्लीभवनम्, शुक्लीस्यात्पट:, प्रागशुक्लः पट इदानीं शुक्लः स्यादित्यर्थः । एवं कारकीकरोति चैत्रम्, कारकीभवति कारकीस्याच्चैत्रः । दण्डीकरोति चैत्रम्, दण्डीभवति दण्डीस्यात् चैत्रः, राजपुरुषीकरोति चैत्रम्, राजपुरुषीभवति राजपुरुषीस्याच्चैत्रः । संधीकरोति गाः, संधीभवन्ति सधीस्युर्गावः, घटीकरोति मृदम्, घटीभवति घटी स्यान्मृत्, पटीकरोति तन्तून् , पटीभवन्ति पटीस्युस्तन्तवः, भस्मीकरोति काष्ठम्, भस्मीभवति काष्ठम्, भस्मीस्यात् काष्ठम् । कृभ्वस्तिभ्यामिति किम् ? अशुक्लं शुक्लं संपादयति, अशुक्ल: शुक्लः संपद्यते । कर्मकर्तृभ्यामिति किम् ? प्रागदेवकूले इदानी देवकुले करोति, प्रागदेवकुले इदानीं देवकुले भवति । कथं समीपीभवति, दूरीभवति, अभ्यासीभवति ? अत्रापि उपचारात्तत्स्थे द्रव्ये वर्तमानानां समीपादीनां कर्तृत्वम् । प्रागतत्तत्त्व इति किम् ? शुक्लं करोति। शुक्लो भवति । शुक्लः स्यात् । प्राग्ग्रहणं किम् ? अशुक्लं शुक्लं करोति । एककालमतत्तत्त्वे न भवति । भवति हि एको भावः कश्चिदेककालं शुक्लोऽशुक्लश्च देशभेदन चित्रपटीवत् । अभद्रं भद्रं करोति भद्राकरोति शिरः, अनिष्कुलं निष्कुलं करोति निष्कुलाकरोति दाडिममित्यत्र परत्वात् डाजेव ॥१२६॥
न्या० स० कृभ्व०-प्रागतत्तत्वे इति, तस्य मावस्तत्त्वं, न स असः, प्राग् असः प्रागसः, 'अव्ययं प्रवृद्धादिभिः' ३-१-४८ इति सः, प्रागतस्य तत्त्वं प्रागतत्तत्त्वं तस्मिन् । ___दण्डीकरोतीति असत्पर इत्यधिकारस्य 'रात् सः' २-१-९० इत्यवस्थितत्वात् 'दीर्घश्चि०' ४-३-१०८ इति दीर्घः । कथमिति नन्वत्र प्रागतत्तत्वं नास्ति प्रकृतिविकाराभावात, नह्यसमीपं भवति किं तर्हि असमीपस्थं समीपस्थं भवतीति समीपादिभ्यः च्विः प्रत्ययो वक्तव्य इत्याशङ्क्याह उपचारादिति समीपशब्दः समीपस्थे वस्तुनि वर्तते इत्यर्थः। अर्मनश्चक्षुश्वेतोरहोरजसां लुक् च्वौ ॥ ७. २. १२७ ॥ अरुस्, मनस्, चक्षुस्, चेतस्, रहस्, रजस् इत्येतेषां च्वौ परेऽन्तस्य