________________
२८८ 1 बृहवृत्ति-लघुन्याससंवलिते [ पाद. २ सू० १२३-१२५ ] दवधेरदूरे वर्तमान देन : प्रत्ययो भव'त । अस्म त पूर्वा अदूरा दिक रमणीया देशः कालो वा पूर्वेणास्य रमणीयम्, पूर्वेणास्य वसति, अपरेणास्य रमणीयम्, अपरेणास्य वसति । एवं दक्षिणेन उत्तरेण अधरेण । अदूर इति किम् ? पुरो रमणीयम्, पुरो वसति । प्रथमासप्तम्या इत्येव ? पुरः आगतः । दिम्देशकालमात्रे द्योत्ये ये सामान्यप्रत्यया उक्ता अदूरे अपि सामान्यविवक्षाय ते भवन्त्येव प्रकरणादेश्चादूरता गम्यत इति नार्थो वाग्रहणेन, अन्ये तु दक्षिणोत्तराधरशब्देभ्य एव एनप्रत्ययमिच्छन्ति ।१२२।
न्या० स० अदूरे०-नानुवर्तत इति 'द्वितीयाषष्ठ्यावेनेनानञ्चेः३-२-११७ इत्यत्राञ्चेवर्जनात् ।
नार्थो वा ग्रहणेनेति एवं तर्हि 'आही दूरे' ७-२-१२० इत्यत्र कथमुक्तं विशेषविहितेन आहिना बाधो माभूदित्येवमर्थमिति अनेनैव प्रकारेण सिद्धत्वात् ?
सत्यं, सोऽपि प्रकारोऽस्तीति ज्ञापनार्थम् । लुबञ्चः ॥ ७. २. १२३ ॥
अञ्चत्यन्तादिशब्दादिग्देशकालेषु वर्तमानात्प्रथमापञ्चमीसप्तम्यन्ताद्यः प्रत्ययो विहितो धा एनो वा तस्य लुप् भवति । प्राची दिक् दूरादूरा वा रमणीया देशः कालो वा प्राग्रमणीयम्, प्रागागतः, प्राग्वसति । एवं प्रत्यक अवाक् उदक् । लुपि च सत्यां स्त्रीप्रत्ययस्यापि लुप् भवति ।१२३॥ पश्चोऽपरस्य दिक्पूर्वस्य चाति ॥ ७. २. १२४ ॥
अपरशब्दस्य केवलस्य दिक्पूर्वपदस्य च आति प्रत्यये परे पश्चादेशो भवति । अपरा दिग्देशः कालो वा रमणीयः पश्चाद्रमणीयम् । पश्चादागतः, पश्चाद्वसति । दिकपूर्वात्, दक्षिणा च सा अपरा च दक्षिणापरा दिग्देशो वा रमणीयः दक्षिणपश्चाद्रमणीयम् । दक्षिणपश्चादागतः, दक्षिणपश्चाद्वसति, उत्तरपश्चाद्रमणीयम्, उत्तरपश्चादागतः, उत्तरपश्चाद्वसति ।१२४। वोत्तरपदेऽर्धे ॥ ७. २. १२५ ॥
अपरशब्दस्य केवलस्य दिक्पूर्वपदस्य च अर्धशब्दे उत्तरपदे पश्चादेशो का भवति । अपरमर्थं पश्चार्धम् अपरार्धम् दक्षिणापरस्या अर्धः दक्षिण पश्चार्धः दक्षिणापरार्धः, उत्तरपश्चार्ध, उत्तरापराधः, उत्तरपदे इति. किम ? अपरा अर्धे शोभते । असमासोऽयम् । पूर्वपदमुत्तरपदमिति हि समासे भवति ।१२५।