________________
[ पाद. २. सू. १३७ - १४१ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोध्यायः [ २९३
समयाद्यापयानाम् ।। ७. २. १३७ ॥
समयशब्दाद्यापनायां कालहरणे गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । समयाकरोति तन्तुवायः । अद्य श्वस्ते पटं दास्यामीति कालक्षेप करोति इत्यर्थः । यापनायामिति किम् ? समयं करोति ॥१३७॥
सपत्र निष्पत्रादविव्यथने । ७. २. १३८ ॥
सपञ्च निष्पत्र इत्येताभ्यां कृगा योगेऽलिव्यथनेऽतिपीडने गम्यमाने डाच् प्रत्ययो भवति ।
सपत्राकरोति मृगम्, पत्रे शरः सह पत्रमनेनेति सपत्र, तं करोति शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोति, निर्गतं पत्रमस्मादिति निष्पत्रः तं करोति शरमस्यापरपान निष्क्रमयतीत्यर्थः, सपत्राकरोति वृक्षं वायुः, निष्पत्राकरोति वृक्षं वायुः, अत्र पत्त्रशातनमेवातिव्यथनम् । सपत्त्रकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निष्पत्त्राकरणमेवोच्यते । यथा दीपो नन्दतीति विध्वंसः । अतिव्यथन इति किम् ? सपत्रं करोति वृक्ष जलसेक -, निष्पत्रं करोति वृक्षतलं भूमिशोधक: । १३८ | निष्कुलान्निष्कोषणे । ७. २. १३९ ॥
निष्कुलशब्दात्कृगा योगे निष्कोषणेऽर्थे डाच् प्रत्ययो भवति ।
निष्कृष्टं कुलमवयवसंघातोऽस्मादिति निष्कुलम्, अन्तरवयवानां, बहिनिष्कासनं निष्कोषणम्, निष्कुलं करोति निष्कुलाकरोति दाडिमम् निष्कुष्णातीत्यर्थः । एवं निष्कुलाकरोति पशु चण्डालः । निष्कोषण इति किम् ? निष्कुलं करोति शत्त्रम् ।१३९। प्रियसुखादानुकूल्ये ।। ७. २. १४० ॥
प्रियसुख इत्येताभ्यां कृगा योगे आनुकूल्ये गम्यमाने डाच् प्रत्ययो भवति । प्रियाकरोति गुरुम्, सुखाकरोति गुरुम् । गुरोरानुकूल्यं करोति तमाराधयतीत्यर्थः । आनुकूल्य इति किम् ? प्रियं करोति सामवचनम्, सुखं करोत्यौषधपानम् ।१४०
न्या० स० प्रिय०—सामवचनमिति आनुकूल्यं हि चेतनधर्म्मः, तदत्र नास्ति एवमुत्तरेऽपि । दुःखात् प्रातिकूल्ये । ७. २. १४९ ॥
दुःखशब्दात् प्रातिकूल्ये गम्यमाने कृगा योगे डाच् प्रत्ययो भवति ।